________________
मिश्रितप्रकरणम् ४. शुचिः सतोया विशदा मनोज्ञा सगोमया सस्यवती च भूमिः।। छायामयी शादलमेवमाया भवंति नीचेषु शुभाः प्रदेशाः॥ ॥ ४० ॥ करंकशूलाचितिशृंगयूपाः शवः खरः सौरभसूकरोष्टाः ॥ वल्मीकशुष्कोत्पटितद्रुमाया नोच्चेषु देशेषु भवंति शस्ताः ॥४१॥
॥ टीका ॥
प्रदेशान् वयं प्रतिपादयामः ॥३९॥ शुचिरिति ॥ एवमाद्याः प्रदेशाः नीचेषु शुभाः भवंति ते के इत्यपेक्षायामाह ॥ शुचिरिति ॥ शुचिः पवित्रा भूमिः तथा सतोया सह जलेन वर्तमाना विशदा मालिन्यरहिता मनोज्ञा मनोहारिणी सगोमयाच्छगु. णयुक्ता सस्यवती धान्योत्पत्तिमती छायामयी वृक्षवाहुल्यादिति भावः। शाढलं बालतणोपयुक्तं स्थलम् । शाहलः शादहरिते ।' इत्यमरः ॥ ४० ॥ करंकशूलेति॥ उच्चेषु देशेषु एते शस्ताः शोभना न भवंति ते के इत्यपेक्षायामाह करकेति करंक मृतशुष्कशरीरम् ॥ "शरीरास्थि करंकः स्यात्कंकालमस्थिपंजरः" । इति हैमः। शूला चौराणां वधार्थ बहियस्तं काष्ठं चितिः चिताशृंगं विषाणं यूपाः यज्ञस्तंभाः करंकश्च शूलाच चितिश्च शृंगंच यूपश्च करंकशूलाचितिशृंगयूपाःइतरेतरद्वंद्वःशवः जीवेनोज्झितं वपुः मृतकं खरः गर्दभः सैरिभो महिषः सूकरः प्रसिद्धः उष्ट्रः करमः सैरिभश्च सूकरश्च उष्ट्रश्च सैरिभसूकरोष्ट्रा इतरेतरद्वंद्वःतथा। वल्मीकशुष्कोत्पटितद्रुमाद्याः वल्मीकमुपदेशिकागृहं शुष्काः नीरसाः उत्पादिताः वायुनोत्पाट्य भूमौ
॥ भाषा॥
हैं ॥ ३९ ॥ शुचिरिति ॥ पवित्रभूमि होय, जल जहां भर रहो होय, निर्मल होय, मनकू हरवेवाली होय, जाकू देखते ही मनप्रसन्न होजाय, गोबरसहित होय धान्यकी जामें उत्पत्ति होती होय, वृक्षावलीनकी छाया होय, छोटीछोटी हरीहरी तृणयुक्त स्थल होय, इनकू आदिले देशप्रदेश नीचे स्थलनमें शुभ देवेबारे हैं ॥ ४० ॥ करंकशूलाचितीति ॥ ऊँचे देशनमें ये अच्छे नहीं हैं कौन कौन ? कोई मरेको सूखो शरीर, औरशूली, और चिता, और सींग, और यज्ञस्तंभ, और मुरदा, और गधा, और महिष, सूकर, और ऊंट, और सर्पकी वमैं, और सूखे पवन करके उखडे पृथ्वीमें पड़े हुये वृक्ष ये शुभदायक नहीं हैं ॥ ४१॥
Aho ! Shrutgyanam