SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठितप्रकरणम् १. (१५) अत्रिगर्गगुरुशुक्रवसिष्ठव्यासकौत्सभृगुगौतममुख्याः ॥ ज्ञानिनो मुनिवरा हितभावात्संविदं निजगदुः शकुनानाम् ॥ ॥२७॥ वेदाः पुराणानि तथेतिहासाः स्मार्तानि शास्त्राणि तथापराणि ॥ सत्याधिकं शाकुननामधेयं ज्ञानं समस्तानि समाश्रितानि ॥ २८ ॥ स्वयं त्रिनेत्रो भगवान्गणानामुपादिशच्छाकुनमुत्तमं यत् ॥ केन प्रकारेण तदप्रमाणं फलाविसंवादि वदंति जिह्माः॥२९॥ ॥ टीका ॥ केनेदं प्रकटीकृतमित्याशंकायामाह ॥ अत्रिगर्गइति ॥ अत्रिश्चंद्रोत्पत्तिकृत् गर्गः प्रसिद्धो गुरुवृहस्पतिः शुक्रः कविर्वसिष्ठः प्रसिद्धो व्यासो महाभारतप्रणेता कौत्सो वरतंतुशिष्यो भृगुः शुक्रजनको गौतमः पुरंदरस्य शापप्रदः पते मुख्यत्वेन प्रतिष्ठिताःप्रतिष्ठांप्रापिता येषु ते तथा यदा आद्यर्थे मुख्यशब्दस्तेन एतदादयइत्यर्थः।ज्ञानिनः शकुनानां पक्षिणां संविदं ज्ञानं निजगदुः कथयामासुरित्यन्वयः। कीदृशास्ते मुनिवराइति मुनिषु वराः प्रधाना इत्यर्थः।कस्मात् हितभावादिति हिताध्यवसायादित्यर्थः ॥ २७ ॥ वेदा इति ॥ एतानि समस्तानि शास्त्राणि शकुननामधेयंशाकुनाख्यं ज्ञानं समाश्रितानि एतानि कानीत्यपेक्षायामाह। वेदा इति । वेदा ऋग्यजुः सामप्रभृतयः पुराणान्यष्टादशसंख्याकानि इतिहासाः पुरावृत्तं तथाऽपराणि यानि शास्त्राणि स्मृतानि स्मृतिगोचरीभूतानीत्यर्थः शाकुननामधेयं शाकुनाख्यं ज्ञानं समाश्रितानि इतिहासः पुरावृत्तमिति हैमः । कीदृशं शाकुनज्ञानं सत्याधिकमिति सत्यप्राधान्यतया प्रथितं सर्वोत्कृष्टमित्यर्थः ॥२८॥ एतन्मुनीनां केनोपदिष्टमित्याकांक्षायामाह । स्वयमिति । जिह्माः कुटिलाशयाः केन प्रकारेण तच्छास्त्रमप्रमाणं न ॥भाषा ॥ ये शकुनज्ञान कौननें प्रकट कियो है ताय कहै हैं । अत्रिगईइति ॥ मुनिनमें श्रेष्ठ ऐसे जे अत्रि, गर्ग, गुरु, बृहस्पति, शुक्राचार्य, वशिष्ठ, वेदव्यास, कौत्स, शुक्रजीके पिता भृगु, गौतम, येहैं मुख्य जिनमें ऐसे ज्ञानी ऋषि ते शकुन है नाम जाको ऐसे पक्षिनको ज्ञान ताय प्राणिनके कल्याणकेलिये कहतेहुये ॥ २७ ॥ वेदाइति ॥ वेद जे ऋग्वेद, यजुर्वेद, सामवेद, अथर्वणवेद, और अठारह पुराण और इतिहास महाभारतादिक, और स्मृतिगोचर जे शास्त्र है ते ये समस्तशास्त्र सत्य हैं मुख्य जामें ऐसो शकुन ज्ञान ताय आश्रय करे हैं ॥ २८॥ मुनिना कौन करके उपदेश हुया ताय कहैहैं. ॥ स्वयामिति ॥ कुटिलहैं अंतःकरण जिनके ऐसे जन Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy