SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ( ५०२ ) वसंतराज शाकुने - एकोनविंशतितमो वर्गः । R प्राचेतसी संचलितस्य काष्ठां शृंगालिका जल्पति दक्षिणेन || यदा तदानीं सुबहूननर्थान्करोति चार्थानपहंति पुंसः ॥ ४७ ॥ दिशं प्रचेतः परिपाल्यमानां नरस्य यस्य व्रजतः शृगाली ॥ वामा विरावं प्रकरोति शांता भवत्यभिप्रेतफलानि तस्य ॥ ४८ ॥ यो वारुणीं याति दिशं मनुष्यः शृण्वञ्छिवाया रटितानि पृष्ठे ॥ गतस्य तस्याशु हुताशभीतिरसंशयं स्याद्द्रविणक्षयश्च ॥ ४९ ॥ यस्योत्तराशां चलितस्य पुंसः प्राच्यां शिवा मुंचति फेत्कृतानि भानुः प्रतीच्यां विहितस्थितिश्वेदपेक्षितं सिध्यति तत्क्षणे ॥५०॥ मुंचत्युदीचीं चलितस्य पृष्ठे शिवा विरावं पुरुषस्य यस्य ॥ आस्ते च मध्ये नभसो विवस्वांस्तथार्थहानिर्मरणं च दृष्टम् ॥५१॥ ॥ टीका ॥ इति हैमः ॥ ४६ ॥ प्राचेतसीमिति प्रचेताः वरुणस्तस्येयं प्राचेतसी पश्चिमा तां काष्ठां दिशं संचलितस्य पुंसः यदि दक्षिणेन गृगालिका जल्पति तदानीं सुबहूननथन्करोति पुंसः अर्थानपहंति ॥ ४७ ॥ दिशमिति ॥ प्रचेतः परिपाल्यमानां दिशं पश्चिमां काष्ठामित्यर्थः । व्रजतो यस्य नरस्य शृगाली वामा विरावं प्रकरोति चेच्छांता तदा तस्य अभिप्रेतफलानि भवंति ॥ ४८ ॥ य इति । यः पुमान्वारुणीं दिशं शिवायाः रटितानि पृष्ठे शृण्वन्याति तस्य गतस्य आशु शीघ्रमसंशयं हुताशभीतिः स्यात् । तथा द्रविणक्षयश्च स्यात् ॥ ४९ ॥ यस्येति ॥ उत्तराशां चलितस्य पुंसः प्राच्यां पूर्वस्यां शिवा फेत्कृतानि मुंचति चेद्भानुः प्रतीच्यां पश्चिमायां विहितस्थितिः तदा अपेक्षितं वांछितं क्षणेन सिद्ध्यति ॥५०॥ मुंचतीति ॥ यस्य पुरुषस्य ॥ भाषा ॥ तो दीप्तफल देवै ॥ ४६ ॥ प्राचेतसीमिति || पश्चिमकूं गमन करै ताकूं जो जेमने भागमें शृगाली बोले तो बहुतसे अनर्थ करे और अर्थकुंभी नाश करै ॥ ४७ ॥ दिशमिति ॥ पश्चिमदिशाकूं गमनकर्ताके शृगाली बांई भागमें बोले जो शांत होय तो वाकूं वांछितफल होय ॥ ४८ ॥ य इति ॥ जो पुरुष पश्चिमदिशाकूं जातो होय और पीठपीछे शृगालीको शब्द सुनतो हुयो चलै तो वाकूं शीघ्रंही निःसंदेह अग्निको भय होय और धनको क्षय होय ॥ ४९ ॥ यस्येति ॥ उत्तरदिशाकूं चलतो होय वा पुरुषकूं पूर्वदिशा में शृगाली बोलै जो सूर्य पश्चिमदिशामें होय तो तत्क्षण वांछित सिद्धि होय ॥ ५० ॥ मुंचतीति ॥ जो उत्तखदि Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy