________________
( ४७२ )
वसंतराजशाकुने - अष्टादशो वर्गः ।
आयाति हृष्टोऽभिमुखो यदि वा क्रीडां प्रकुर्वन्विलुठत्यथाये ॥ शीघ्रं तदानीं ध्रुवमध्वगानां भवेत्प्रभूतो धनधान्यलाभः ॥ १६८ ॥ उच्चात्प्रदेशादवतीर्य नीचं यो याति वामोऽप्यसुखप्रदोऽसौ ॥ अनुच्चदेशात्पुनरुच्चदेशं यक्षो व्रजदक्षिणगोऽपि शस्तः ॥ १६९ ॥ गजाश्वशय्यासनशाद्वलेषु च्छत्रध्वजोलूखलसडुमेषु || कुंभेष्टिकासंचयचामरेषु पर्याणमृत्पुष्पफलादिषु वा ॥ १७० ॥
॥ टीका ॥
त्वरितं पुरश्चेन्निवर्तते तदा सौख्यं प्रभूतं जल्पति । अस्य तारा गतिः दुःखैकहेतुर्भवति ॥ १६७ ॥ आयातीति ॥ यदि वा हृष्टः क्रीडां प्रकुर्वन्नायाति अथ यथाग्रे विलुठति तदानीं ध्रुवं निश्चयेन अध्वगानां पांथानां प्रभूतः धनधान्यलाभः स्यात् ॥ ॥ १६८ ॥ उच्चादिति ॥ योः यक्षः उच्चात्प्रदेशादवतीर्य नीचं याति असौ वामोपि अमुखप्रदः स्यात् । अनुच्चदेशादधः प्रदेशात्पुनः उच्चदेशं व्रजन्यक्षः दक्षिणगोप शस्तः शोभनः ॥ १६९ ॥ गजाश्वेति ॥ गजाश्वशय्यासनशाइलेषु तत्र गजः हस्ती अश्वः तुरंगः शय्या पल्यंकः आसनमुपवेशनस्थलं शादलानि हरिततृणानि एतेषामितरेतरद्वंद्वः। तेषुच्छत्रध्वजोलूखलसद्रुमेषु छत्रमातपत्रं ध्वजो वैजयंती उलूखलः प्रतीतः सद्दुमाः आम्रप्रभृतयः एतेषां द्वंद्वः । तेषु कुंभेष्टिकासंचयचामरेषु कुंभः कलशः इष्टिकासंचयः (ईटसमूह) चामराणि वालव्यजनानि एतेषामपि द्वंद्वः । पर्यापुष्पफलादिकेषु पर्याणं पल्हाणइति लोके प्रसिद्धं मृन्मृत्तिका पुष्पं प्रसूनं फला
॥ भाषा ॥
ननी ॥ १६७ ॥ आयातीति ॥ जो श्वान प्रसन्न क्रीडाकरत सन्मुख आये. जा पीछे जो अगाडी ' लोट जाय तो निश्वयकर मार्गीनकूं बहुतसो धनधान्यको लाभ होय ॥ १६८ ॥ उच्चादिति ॥ जो श्वान ऊंचे स्थानसूं उतर के नीचे स्थानपै आय जाय जो ये वामभाग मेंभी आय जाय तो दुःख देवे. और नीचे स्थानसूं ऊंचे स्थानपै चढजाय और जेमने भागमें भी होय तो बहुत शुभ जाननो ॥ १६९ ॥ गजाश्वेति ॥ हाथी, घोडा, शय्या, आसन, हरी तृण, छत्र, ध्वजा, ऊखल, उत्तमवृक्ष, कुंभ, ईटको समूह, चमर, पल्हाण
Aho! Shrutgyanam