SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठितप्रकरणम् १. पूर्णकलोप्यकलंको जातो वसुधातले सुधाकिरणः॥ तत्पादसमुपजीवी वसंतराजोनुजस्तस्य ॥४॥ अभ्यर्थितोभियत्नात्कृतबहुमानेन चंद्रदेवेन ॥ ज्यरचयदसौ तदर्थ शाकुनमन्योपकृतये च ॥५॥ ॥ टीका॥ स्तेजस्वी तथायमपीत्यर्थः । भट्ट इति पूज्यः ॥ ३ ॥ पूर्णकल इति ॥ तस्य शिवराजस्यानुजो वसंतराजो वसुधातले सुधाकिरणोजातः चंद्रसदृशोबभूवेत्यर्थः। कीदृशः पूर्णकलोप्यकलंकोमालिन्यरहित इत्यर्थः।अत्रापिशब्दोविरोधाभासद्योतनार्थः। यः पूर्णकलो भवति सोकलंकः कथं स्यादिति विरोधः तत्परिहारश्च पूर्णा कला विज्ञानं यस्य स तथा न तु षोडशो भागः । पुनः कीदृशस्तत्पादसमुपजीवी अत्र तच्छब्देन शिवराजः परामृश्यते । तच्छब्दस्य पूर्वपरामर्शकत्वात्तस्य पादौ समुपजीवतीत्येवंशीलस्तत्पादसमुपजीवी शीलार्थे णिन् अनुज इति अनु पश्चाज्जायत इति लघुर्जात इत्यर्थः ॥ ४ ॥ अभ्यर्थितश्चेति ॥ असौ वसन्तराजः शाकुनं शास्त्रं व्यरचयत् कीदृशः अभ्यर्थितः प्रार्थितः केन चंद्रदेवेनेति मिथिलाधीशेनेत्यर्थः । कीदृशेन राज्ञा कृतबहुमानेनेति कृतं बहुमानं येन स तथा नियतं निश्चयं यथा स्यादिति क्रियाविशेषणं किमर्थं तदर्थमिति तस्मै राज्ञे हेतोरित्यर्थः । पुनः किमर्थम् अन्योपकृतये चेति चकारादन्यस्योपकारार्थमित्यर्थः । एतेन वसंतराजेन कृतोयं ग्रंथश्चंद्रदेवेन राज्ञा कारितः । अस्य ग्रंथस्य वसंतराज इत्यभिधानमिति सू ॥ भाषा ॥ हुये. कैसे है निर्दोष करके बलवान् है मूर्ति जिनकी; फेर कैसे हैं अति उत्कृष्ट है तेज जाको सूर्यकी नाई येभी तेजस्वी, और भट्टः नाम पूजयेके योग्यहैं. ॥ ३ ॥ पूर्णकलइति ॥ ताशिवराजको अनुज छोटोभाई वसंतराज पृथ्वीमें चंद्रमाकी तुल्यहोतो हुयो. कैसो है पूर्ण है कलाकहिये अनुभव जाके ऐसो पूर्णकलावान् है तौहू कलंकरहित है फिर कैसो है बडो भैया शिवराजके चरणनको भक्त ॥ ४ ॥ अभ्यर्थितश्चेति ॥ चंद्रदेवराजाकरके बहुत सम्मानपूर्वक प्रार्थना कियेगये ऐसे वसन्तराज हैं सो शकुनशास्त्र ताय रचते हुये. कौनके अर्थ ता राजा चंद्रदेवके अर्थ अथवा मनुष्यनके उपकारके अर्थ वसंतराजने ये ग्रंथ को है. और मिथिलापुरीको अधीश राजाचंद्रदेवने करायोहै. और या ग्रंथको नाम वसन्तराज है. ॥ ५ ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy