SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ श्वचेष्टिते शुभाशुभप्रकरणम् । चलद्वपुलॊलितपुच्छजिह्वः क्रीडॅल्ललन्सम्मुखमापतंश्च ॥ सस्नेहचित्तोविनयेन युक्तःश्वा प्रस्थितानां विदधाति सिद्धिम्॥९५॥ इति श्वचेष्टिते युद्धप्रकरणम् ॥ ६॥ शुभाशुभज्ञाननिमित्तभूतं श्रेष्ठं पुनश्चेष्टितमेतदत्र ॥ आख्या- ' यते ख्यातमखिन्नचित्तैः सुखाय नृणां मुनिभिर्यदायैः ॥. ९६॥ श्वा जिह्वया दक्षिणदिग्विभागं लिहन्समस्तोद्यमसिद्धिकारी ॥ नखाग्रजिह्वारदनैरवाममंगं स्पृशल्लाभकरः सदैव ॥ ९७ ॥ ॥ टीका ॥ चलदिति ॥एवंविधः श्वा प्रस्थितानां सिद्धिं विदधाति । कीदृक् । चलद्वपुः चंचलकायः पुनः कीदृक् लोलितपुच्छजिह्वः लोलितं वक्रीकृतं पुच्छजिद्धं येन स तथा। पुनः कीदृशः । सम्मुखम् आपतनागच्छन् । पुनः कीदृक् सस्नेहचित्तः पुनः कीदृक् क्रीडल्ललन् । पुनः कीदृक् विनयेन युक्तः नम्रः॥ ९५ ॥ इतिवसंतराजशाकुने टीकायां श्वचेष्टिते युद्धप्रकरणं षष्ठम् ॥ ६ ॥ शुभेति ॥ शुभाशुभज्ञाननिमित्तभूतं शुभं चाशुभं च तयोः ज्ञानं अवबोधः तस्य निमित्तभूत कारणभूतं श्रेष्ठं शुनश्चेष्टितमेतदिदम् अत्र प्रकरणे आख्यायते । यच्चेष्टितमखिन्नचित्तैः अश्रांतमनोभिः आयैः मुनिभिः पूर्वर्षिभिरित्त्यर्थः। नृणां सुखाय सुखहेतवे आख्यातम् ॥ ९६ ॥ श्वेति ॥ श्वा जिह्वया दक्षिणदिग्विभागं लिहन्समस्तेषु उद्यमेषु सिद्धिकारी स्यात्। तथा नखाग्रनिहारदनैरवाममंगं स्पृश ॥ भाषा॥ नामा चेष्टा करै तो यात्राको निषेध जाननो ॥ ९४ ॥ चलदिति ॥ देह जाको चंचल होय; टेढी जाकी पूंछ जिह्वा होय. सन्मुख आवतो होय, प्रसन्नचित्तं होय, नम्रतायुक्त क्रीडा करतो, हलतो चलतो ऐसो श्वान प्रस्थित पुरुषनकू सिद्धि करै ॥ ९५ ॥ इति वसंतराजभाषाटीकायां श्वचेष्टिते युद्धप्रकरणं षष्ठम् ॥६॥ शुभेति ॥ नहीं श्रांत है मन जिनके ऐसे पूर्वऋषि तिनने मनुष्यनके सुखके अर्थ जो चेष्टा कही हैं वे शुभ अशुभको ज्ञानताको कारणभूत श्रेष्ठ श्वानकी चेष्टा ये या प्रकरणमें कहैहैं ॥ ९६ ॥ श्वेति ॥ जो श्वान जिह्वा करके दक्षिण दिग् विभागकू चाटै तो समस्त उद्यमनमें सिद्धि करे. और नखनको अग्र, जिहा, दांत इनकरके जेमने - Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy