SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पोदकीरुते शांतप्रकरणम् । ( ११३ ) एषां च मध्यात्कुकुबादिकानां जातेषु शांतेष्वधिकाधिकेषु ॥ शुभं नराणामधिकाधिकं स्यात्तद्वत्प्रदीप्तेष्वशुभं प्रदिष्टम् ॥ ॥ ४९ ॥ एवंविधं शांतमथ प्रदीप्तं जानाति यः शाकुनिकः स एव ॥ शान्तप्रतिस्यच यो विशेषं न वेत्ति नो वेत्ति स किंचिदेव ॥ ५० ॥ इति पोदकीरुते शान्तप्रकरणं द्वितीयम् ॥ २ ॥ ॥ टीका ॥ पुनः एतदेव पूर्वोक्तं सप्तप्रकारं विपरीतभावादीप्तं कथयति ॥ ४८ ॥ एषामिति ॥ एषां सप्तानां ककुवादिकानां मध्यादधिकाधिकेषु शांतेषु जातेषु तदा नराणामधिकं शुभं स्यात् । सप्तसु शांतेषु का गणना । तद्वत्प्रदीप्तेषु अधिकाधिकेषु जातेष्वशुभमधिकं प्रदिष्टं कथयति ॥ ४९ ॥ एवंविधमिति ॥ एवंविधं पूर्वप्रतिपादितं शांतमथ च प्रदीप्तं यो जानाति स एव शाकुनिकः शकुनज्ञाता । यः शांतप्रदीप्तस्य विशेषं न वेत्तिस न किंचिदेव वेत्ति किमपि न जानातीत्यर्थः ॥ ५० ॥ इति श्रीमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरुते द्वितीयं शांतप्रदीप्तं प्रकरणम् ॥ २ ॥ ॥ भाषा ॥ एषामिति ॥ ये दिक्कालादिक सात कहे इनके मध्यमें अधिक अधिक शांत शकुन होय तो मनुष्यनको अधिक शुभ होय, और जो ये सातोन में प्रदीप्त अधिकाधिक होय तो अशुभ अधिक कहनो ॥ ४९ ॥ एवंविधमिति ॥ याप्रकार कहे जे शांत प्रदीप्त तिन जो जाने सोही शकुनी श्रेष्ठ है, और शांतप्रदीप्तके भेदकूं नहीं जाने है सो पुरुष कछुभी नहीं जाने है ॥ ५० ॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधर विचितायां वसंतराजभाषाटीकाय पोदकीरुते शांतप्रकरणं द्वितीयम् ॥ २ ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy