SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ 5 धावति वायुना नीयमानः समन्तात् - सरासर:- सारङ्गः । फल निष्पत्ती, फलति - निष्पादयति नानाविधानि पुष्प फलानि - फलाफलम् - अरण्यम् । कष हिंसायाम्, कषति - विदारयति - कषाकष :- कृमिजातिः ॥ १६ ॥ sagपान्त्याभ्यां faagतौ च ॥१७॥ ॥ इकारोपान्त्यादुका रोपान्त्याच्च कित् अः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य च यथासंख्यमिकारोकारो चान्तौ भवतः । किलत्रवत्य - क्रीडनयो:, किलकिलः । हिलत् हावकरणे, हिलिहिलः । शिलत् उञ्छे, शिलिशिलः । 10 छुरत् छेदने, रुच्छुरः । मुरत् संवेष्टने, मुरुमुरः । घुरत् भीमार्थ - शब्दयोः, धुरुधुरः । पुरत् अग्रगमने, पुरुपुरः । सुरत् ऐश्वर्य-दीप्त्योः, सुरुसुरः । कुरत् शब्दे, कुरुकुरः । त्रुरण् स्तेये, चुरुचुर: । हुल हिंसा-संवरणयोच, हुलुहुल: । गुजत् शब्दे, गुजगुजः। गुडत् रक्षायाम् गुडगुडः । कुटत् 15 कौटिल्ये, कुटुकुटः । पुटत् संश्लेषणे, पुटुपुट: । कुणत् श ब्दोपकरणयोः, कुणुकुणः । मुणत् प्रतिज्ञाने, मुणुमुणः । अनुकरणशब्दा एते ॥ १७॥ जजल - तितल- काकोली- सरीसृपाऽऽदयः ।।१८।। एते अप्रत्ययान्ता निपात्यन्ते । जल घात्ये अस्य द्वित्वे 20 पूर्वस्य जभाव:, जजल:, यस्य जाजलिः पुत्रः । तिलत् स्ने हने, अस्य द्वित्वे पूर्वस्य च तिभावे धातोरिकारस्य अकारे - तितल: । कुल बन्धु- संस्त्यानयोः अस्य द्वित्वे पूर्वस्य च काभावे - काकोली, क्षीरकाकोलीति च वल्लीजातिः । सृप्लू गतो, अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीभावे - सरी25 सृपः- उरगजाति: । आदिग्रहणाद् यथादर्शनमन्येऽपि ॥ १८ ॥ बहुलं गुण-वृद्धी चादेः ॥ १६ ॥ धातोः कितु अः प्रत्ययो भवति, सरूपे च द्वे रूपे भ वतः पूर्वस्य चेकारावन्तौ भवतः यथादर्शनं च गुणवृद्धी भवतः । केलिकिलः, कैलिकिला- हसनशीलः । 30 हिलत् हावकरणे, हेलिहिल:, हैलिहिलच - विलसनगीलः । शेलिशिल:, शैलिशिलश्च । शुभि दीप्तौ शोभते पुनः पुनरिति - शोभुशुभः, शौभुशुभः । दंत् प्रेरणे, नुदति पुनः पुनरिति - नोनुदः, नौदुनुदः । गुडत् रक्षायाम्, गुलति - भ्राम्यति पुनः पुनरिति- गोलुगुलः, गौलुगुलः । 35 बुलण् निमज्जने, बोलयति पुनः पुनरिति- बोलुबुल: बौलुबुल: । तत्तद्धात्वर्थास्तच्छीला अनुवादविशेषा बैते ॥ १६ ॥ लुप् ॥२०॥ धातोरप्रत्ययसन्नियोगे बहुलं णेर्लुप् भवति । वज्र धारयतीति - वज्रधरः - इन्द्रः । एवं चक्रधर:- विष्णुः, 40 भूधर:- अद्रि:, जलधर:- मेघ: । बाहुलकात् प्रत्ययान्तरेऽपि देवयतीति- दिव्- द्यौः, व्योम, स्वर्गश्च । पुण्यं कारयन्तीति पुण्यकृतो देवाः एवं- पणं शोषयतीतिपर्णशुट् । ३ "वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे, ततः पर्णरुहः पश्चात् ततो देवः प्रवर्षति ॥ १॥ तथा - महतः कारयां चक्रुराक्रन्दान्' इति प्राप्ते 'महतचकुरत्क्रन्दान्' इति भवति । " महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः ।” घोषयांचकुरित्यर्थः ||२०|| भी शलि वलि - कत्यति मर्च्य च मृजि-कु-तु-स्तु- 50 दाधा-रा-त्रा का पा-निहा- नञ्भ्यः कः ||२१|| fafa - पुषि- मुषि शुष्यवि-सु-वृ-शु-सु-भू-धू मूनीवीभ्यः कित् ॥२२॥ एम्य: कित् कः प्रत्ययो भवति । विपी पृथग्मावे, एम्य: कप्रत्ययो भवति । विभक् भये, बिभेति दुन्दुभात् परस्माच्च भेक:- मण्डूकः, कातरश्च; बिभेति वायो: - भेकः - मेघः । इंण्क् गतो, एत्यद्वितीय इति - एक: असहाय, संख्या, प्रधानम्, असमानम्, अन्यश्च । 65 पल फल शल गती, शलन्त्यात्मरक्षणाय तमिति - शल्क:शरणम्; शलति त्यक्तं बहिरिति शल्कं गृहीतरसं शकलम्, शल्क:- काष्ठत्वक्, मलिनं च काष्ठम्, मुद्गरः करणं च । वलि संवरणे, वल्क:- दशनः, वासः, त्वक् च । कलि शब्द - संख्यानयोः, कल्क:- कषायः, दम्भः पिष्ट- 60 पिण्डव । अत सातत्यगमने, अत्कः- आत्मा, वायु, व्याधितः, चन्द्रः, उत्पातश्च । मर्चः सौत्रो धातुः प्राप्तौ, मर्क:देवदारुः, वायुः, दानवः, मनः पन्नगः, विघ्नकारी च । " च ज : क- गम्" [ २. १.८६ ] इति कत्वम् । अर्च पूजायाम्, अर्क :- सूर्य:, पुष्प जाति:, कु[ भाट ]टजातिश्च । 65 मृजौक शुद्धी, मार्क:- वायुः । कुंकु शब्दे, कोक:- चक्रवाकः । तुं वृत्ति-हिंसा- पूरणेषु, तोकम्- अपत्यम् । ष्टुंग्क् स्तुतौ स्तोकम् - अल्पम् । डुदांग्क् दाने, दाक:यजमानः, यज्ञश्च । डुधांगक् धारणे च धाक:- ओदनः, अनड्वान्, अम्भः स्तम्भश्च । रांक दाने, राक:- दाता, 70 अर्थ:, सूर्यव; राका - पौर्णमासी, कुमाररजस्वला च । त्रैङ् पालने, त्राक:- धर्मः, शरणस्थानीया । कैं शब्दे, काक:वायसः । पां पाने, पांक रक्षणे वा, पाक:- बाल:, असुर, पर्वतश्च । ओहां त्यागे, निहाकः - निःस्नेहः, निर्मोकश्र्च, निहाको - गोधा । शुं गतौ, न शवतीति - अशोकः ॥ २१ ॥ 75 Aho! Shrutgyanam 45
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy