SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७५-७७] । उणादिविवृतिः। शीभीराजेश्चानकः ॥ ७१ ॥ शीभीराजिभ्यो धालशिङ्किभ्यश्च आनकः प्रत्ययो भवति || शीडा स्वमे । शयानकोजगरः शैलश्च ।। बिभीन भये । बिभेत्यस्मादिति भयानको भीमो व्यानो वराहो राहुश्च ॥ राजग् दीप्ती । राजानकः क्षत्रियः ॥ डुधांग्क् धारणे च । धानका हेमादिपरिमाणम् ॥ लूग्श् छेदने । लवानको देशविशेषो दात्रं च ।। शिवन्त्यनेनेति शिवानकः श्लेष्मायुः पुरीषं च ॥ ७१ ॥ अर्डित् ॥ ७२ ॥ अर्डिदानकः प्रत्ययो भवति || अण शब्दे । आनकः पटहः ॥ ७२ ॥ कनेरीनकः ॥ ७३ ॥ कनै दीप्तिकान्तिगतिषु । इत्यस्मादीनकः प्रत्ययो भवति ॥ कनीनकः कनीनका वाक्षितारका ।। ७३ ।। गुड ईधुकएधुकौ ॥ ७४ ॥ गुंड् शब्दे । इत्यस्मादीधुक एधुक इत्येतो प्रत्ययौ भवतः ।। गवीधुकं नगर धान्यजातिश्च ।। गवेधुका तृणजातिः ॥ ७४ ॥ वृतेस्तिकः ॥ ७ ॥ वृतूड् वर्तने । इत्यस्मात्तिकः प्रत्ययो भवति ।। वर्तिका चित्रकरोपकरणं शकुनिर्द्रव्यगुटिका च ॥ ७॥ कृतिपुतिलतिभिदिभ्यः कित् ।। ७६ ॥ एभ्यः कित्तिकः प्रत्ययो भवति || कृतैत् छेदने । कृन्तिका नक्षत्रम् । पुतिलती सौत्री । पुत्तिका मधुमक्षिका || लत्तिका वाद्यविशेषो गार्गोधा च । गोपूर्वात् । गोलत्तिका गृहगोलिका । अवपूर्वात् । अवलसिका गोधा । आलत्तिका गानमारम्भः ॥ भिद्रूपी विदारणे । भित्तिका कुचं माषादिचूर्ण शरावती च नह ।। ७६ ।। इष्यशिमसिभ्यस्तकक् ॥ ७७ ॥ एभ्यस्तकक् प्रत्ययो भवति । इषत् इच्छायाम् | इष्टका मुद्विकारः ॥ अशोटि व्याप्तौ । अष्टका श्राद्धतिथयस्तिस्रोष्टम्यः पितृदेवत्यं च ॥ मसैच् परिणामे । मस्तकं शिरः ॥ ७७॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy