________________
उणादिविवृतिः। बिणरेणुः प्रवास शीलश्चन्द्रः प्रावरणं च ।। पचेः पाक् च | पाकुको लघुपाची सूपः रूपकारोध्वर्युश्च ।। हिनोतिचिनीतिजमतीनां बोन्तथ | हिबुकं लमाचतुर्थस्थानं रसातलं च ॥ चिबुकं मुखाधोभागः ॥ जम्बुकः सृगालः ॥ चुलुम्पः सौत्रः । अन्त्यस्वरादिलोपश्च । चुलुम्पतीति चुलुकः करकोशः ॥ चतेश्च । चुचुकः स्तनायभागः । ज्वलेरुल्म् च । उल्मकमलातम् ॥ मातेर्वोन्तश्च । भावुको भगिनीपतिः।। प्रथिष् प्रख्याने । पृथुकः शिशुर्वीह्याद्यभ्यूषश्च ॥ मचि कल्कने । धश्चान्तादेशः । मधुकं यष्टीमधुः ।। आदिग्रहणात् वालुकीवालुकादयो भवन्ति ॥ ५७॥ मृमन्यञ्जिजलिबलितलिमलिमल्लिभालिमण्डिबन्धिभ्य ऊकः ॥ ५८॥
एभ्य ऊकः प्रत्ययो भवति ॥ मृत् प्राणत्यागे | मरूको मयूरो मृगो निर्दशनेभस्तृणं च ।। मनिच ज्ञाने | मनूकः कृमिजातिः ।। अनौप् व्यक्तिम्रक्षणगतिषु । अजूको हिंस्रः।। जल धात्ये | जलूका जलजन्तुः ।। बल प्राणनधान्यावरोधनयोः । बलूक उत्पलमूलं मत्स्यश्च ।। तलण प्रतिष्ठायाम् । तलूकस्त्वकृमिः॥ मलि धारणे। मलूकः सरोजशकुनिः । मल्लि धारणे | मल्लूकः कृमिजातिः ।। भलिण् आभण्डने । भालूक ऋक्षः ।। मदु भूषायाम् । मण्डूको दर्दुरः ।। बन्धंश् बन्धने । बन्धूको बन्धुजीवः ॥ ५८ ॥
शल्यर्णित् ॥ ५९॥.. ___आभ्यां जिदूकः प्रत्ययो भवति ॥ पल फल शल गतौ । शालूकं जलकन्दो बलवाच ॥ अण शब्दे । आणूकमसिमलम् ।। ५९॥
कणिभल्लेर्दीर्वश्च वा ॥ ६ ॥ आभ्यामूकः प्रत्ययो [भवति ] दीर्घश्वामयोर्वा भवति ॥ कण शब्दे । कणूको धान्यस्तोकः। काणूकः पक्षी । काणूकमक्षिमलं तमो वा || भल्लि परिभाषणहिंसादानेषु । भल्लूको भाग्मूकश्च ऋक्षः ॥ ६१॥
शम्बूकशाम्बूकवृधूकमधूकोलूकोरुवूकवरूकादयः ॥ ६१।।
एत ऊकप्रत्ययान्ता निपात्यन्ते ॥ शमेर्बोन्तो दीर्घश्व वा । शम्बूकः शङ्खः । शाम्बूकः स एव ॥ वृश् भरणे | अस्य वृधभावश्च । वृधूको मातृवाहकः । वृधूकं जलम् ॥ मदेर्धश्च । मदयतीति मधूको वृक्षः । अलेरुचोपान्त्यस्य । उलूकः काकारिः ।। उरुपूर्वात् वातेः किञ्च । उरु वाति । सरुवूक एरण्डः ।। वृधेर्लोपश्च । वर्धत इति वरूकस्तृणजातिः ।। आदिमहणात् अनूकवावदूकादयो भवन्ति ।। ६१॥
Aho ! Shrutagyanam