SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १८-२०] उणादिविवृतिः। सिलिसिलः । छुरत् छेदने । छुरुछुरः । मुरत् संवेष्टने | मुरुमुर : ॥ घुरत् भीमार्थ शब्दयोः । धुरुधुरः ।। पुरत् अग्रगमने | पुरुपुरः ।। सुरत् ऐश्वर्यदीप्त्योः। सुरुसुरः ॥ कुरत् शब्दे । कुरुकुरः ॥ चुरण स्तेये । चुरुचुरः ॥ हुल हिंसासंवरणयोश्च । हुलुहूल : ॥ गुजत् शब्दे । गुजुगुजः || गुडत् रक्षायाम् । गुडुगुड : ।। कुटत् कौटिल्ये | कुटुकुट : || पुटत् संश्लेषणे | पुटुपुटः॥ कुणत् शब्दोपकरणयोः । कुणुकुण : ॥ मुणत् प्रतिज्ञाने । मुणुमुणः ॥ अनुकरणशब्दा एते ॥ १७॥ जजलतितलकाकोलीसरीसृपादयः ॥ १८ ॥ एते अप्रत्ययान्ता निपात्यन्ते ।। जल घात्ये | अस्य द्वित्वे पूर्वस्य च जभावः । जजलः | यस्य जाजलिः पुत्रः ॥ तिलत् स्नेहने । अस्य द्विले पूर्वस्य च तिभावे धातोरिकारस्य अकारे | तितलः ।। कुल बन्धुसंस्त्यानयोः । अस्य द्वित्वे पूर्वस्य च काभावे | काकोली । क्षीरकाकोलीति च वल्लीजाति : || स गतौ । अस्य द्विवे गुगाभावे पूर्वस्य च सरीभावे | सरीसृप उरगजातिः ॥ आदिग्रहणाद्यथादर्शनमन्येपि ।। १८ ॥ बहुलं गुणवृद्धी चादेः ॥ १९ ॥ धातो: किद: प्रत्ययो भवति सरूपे च हे रूपे भवत: पूर्वस्य च इकार-उकारावन्ते भवतो यथादर्शनं च गुणवृद्धी भवत : ।। केलिकिल : कैलि . किलश्च हसनशीलः ॥ हिलत् हावकरणे । हेलिहिलो हैलिहिलश्च विलसनशील :॥ शेलिशिल : शैलिशिलश्च ।। शुभि दीप्तौ । शोभते पुनः पुनरिति शोभुशुभ : । शौभुशुभ: ।। णुदंत् प्रेरणे । नुदति पुनः पुनरिति नोदुनुदः । नौदुनुदः ॥ गुडत् रक्षायाम् । गुलति भ्राम्यति पुन : पुनरिति गोलुगुलः । गौलुगुलः ॥ बुलण् निमज्जने | बोलयति पुनः पुनरिति बोलुबुलः । बौलुबुल :॥ तत्तद्धात्वर्थास्तच्छील अनुवादविशेषा वैते ॥ १९ ॥ __ गेलृप् ॥ २० ॥ धातोरप्रत्ययसंनियोगे बहुलं गेलृप् भवति ॥ वचं धारयतीति वचधर इन्द्रः ॥ एवं चक्रधरो विष्णु : । भूधरोद्रिः ॥ जलधरो मेघः || बाहुलकात्मत्ययान्तरेपि ।। देवयतीति दिव द्यौः स्वर्गो व्योम च || पुण्यं कारयन्तीति पुण्यकृतो वाः॥ एवं पर्ण शोषयतीति पर्णशुट् ॥ वान्ति पर्णशुषो वातास्तत : पर्णमुचोपरे । Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy