SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ९२०-९२] उणादिगणविवृतिः । आडश्च णित् || ९२० ॥ . आपूर्वात्केवलाच्च गमेर्णिदिन्प्रत्ययो भवति || आगमिष्यतीत्यागामी प्रोषि - तादिः || गमिष्यतीति गामी प्रस्थितादिः || ९२० ।। १४९ सुवः ॥ ९२९ ॥ षडौच् प्राणिप्रसवे | इत्यास्माणिदिन्प्रत्ययो भवति || आसाव्या सविष्यमाणो जनिष्यमाण इत्यर्थः ॥ ९२९ ॥ भुवो वा ।। ९२२ ।। भू सत्तायाम् | इत्यस्मादिन्प्रत्ययो [भवति ] स च णिवा भवति || भवि - ष्यतीति भावी कर्मविपाकादिः || भवी भविष्यन् ।। ९२२ ।। प्रप्रतेर्याबुधिभ्याम् || ९२३ || पूर्वात्प्रतिपूर्वाच्च यांक प्रापगे | बुधिं मनिच् ज्ञाने | इत्यस्माच्च गिदिन्मत्ययो भवति || प्रयास्यतीति प्रयायी । प्रतियास्यतीति प्रतियायी || प्रभोत्स्यत इति प्रबोधी || प्रतिबोध बालादिः || ९२३ ॥ प्रात्स्थः || ९२४ ॥ पूर्वात् ठां गतिनिवृत्तौ । इत्यस्माण्णिदिन्प्रत्ययो भवति || प्रस्थास्यत इति प्रस्थायी गन्तुमनाः ।। ९२४ ।। परमात्कित् || ९२५ ॥ परमपूर्वात्तिष्ठतेः किदिन्प्रत्ययो भवति || परमे पदे तिष्ठतीति परमेष्ठ्य - दादिः || भीरुष्ठानादित्वात् षत्वं सप्तम्या अलुप् च ।। ९२५ ।। पथिमन्थिभ्याम् || ९२६ || आभ्यां दिन्प्रत्ययो भवति ॥ पये गतौ । पन्था मार्गः | पन्थानौ । पन्थानः | पथिप्रियः || मन्थश् विलोडने । मन्थाः क्षुब्धो वायुर्वज्रश्च । मन्थानौ | मन्थानः । मथिप्रियः ।। ९२६ ।। होर्भिन् ॥ ९२७ ॥ हुंक् दानादनयोः । इत्यस्मान्मिन्प्रत्ययो भवति || होम्यृत्विग्वृतं च ॥ ९२७ ॥ अर्तेर्भुक्षिनक् || ९२८ ॥ I कंक् गतौ । इत्यस्माद्भुक्षिनक् प्रत्ययो भवति ॥ ऋभुक्षा इन्द्रः । ऋभुक्षाणौ । ऋभुक्षाणः ॥ ९२८ ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy