SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ८६६-८७४] उणादिगणविवृतिः। १४१ रातेः ।। ८६६ ॥ रांक दाने । इत्यस्मारिदैः प्रत्ययो भवति ॥ राः द्रव्यम् । रायौ । रायः ॥ ८६६ ॥ ___ युगमिभ्यां डोः ॥ ८६७ ॥ __आभ्यां डिदोः प्रत्ययो भवति ॥ युक् अभिगमे । द्यौः स्वर्गोन्तरिक्षं च ॥ गमुं गतौ । गौः पृथिव्यादि ॥ ८६७ ॥ ग्लानुदिभ्यां डौः ॥ ८६८ ॥ आभ्यां डिदौः प्रत्ययो भवति || ग्लैं हर्षक्षये | ग्लौश्चन्द्रो व्याधितः शरीरग्लानिश्च ॥ णुदंत् प्रेरणे । नौर्जलतरणम् ॥ ८६८ ॥ तोः किक् ॥ ८६९॥ तुक वृत्त्यादौ । इत्यस्माकिक् प्रत्ययो भवति । ककारः कित्कार्यार्थ इकार उच्चारणार्थः ।। तुक् अपत्यम् ॥ ८६९ ॥ द्रागादयः॥ ८७० ॥ द्राक् इत्यादयः शब्दाः किक्प्रत्ययान्ता निपात्यन्ते ॥ द्रवतेरा च द्राक् शीत्रम् ॥ एवं सरतेः । साक् स एवार्थः ॥ इयर्तेरादेशश्च । अर्वागचिरन्तनम् ।। आदिग्रहणादन्येपि ॥ ८७० ॥ स्रोश्चिक् ।। ८७१॥ ___ गतौ । इत्यस्माचिक् प्रत्ययो भवति ॥ सुग् जुहूप्रभूत्यग्निहोत्रभाण्डम् | सुचौ । स्रुचः ॥ इकार उच्चारणार्थः ककारः कित्कार्यार्थः ।। ८७१ ।। तनइच् ॥ ८७२ ॥ तनूयी विस्तारे । इत्यस्माडिवच् प्रत्ययो भवति || त्वक् शरीरादिवेष्टनम् ॥ ८७२ ।। पारेरज् ॥ ८७३ ॥ ___ पारण कर्मसमाप्तौ | इत्यस्मादज् प्रत्ययो भवति ॥ पारक् प्राकारः शाकविशेषः सुवर्ण रत्नं च | पारजी । पारजः ।। ८७३ ॥ ऋधिप्रथिभिषिभ्यः कित् ॥ ८७४ ॥ एभ्यः किदज् प्रत्ययो भवति ॥ ऋधूच् वृद्धौ । ऋधक् समीपवाच्यव्ययम् || प्रथिष् प्रख्याने । निर्देशादेव वृत् । पृथग्नानार्थेव्ययम् ।। भिषः सौत्रः । भिषग्वैद्यः । भिषजौ । भिषजः ॥ ८७४ ॥ Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy