SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १३० हेमचन्द्रव्याकरणे [७५६-७८४ आपोप् च ।। ७७६ ॥ आट व्याप्तौ | इत्यस्मात्तुन् प्रत्ययो भवत्यस्य च अप् इत्यादेशो भवति || अमुर्देवताविशेषः कालो याजको यज्ञयोनिश्च ।। ७७६ ।। अङ्ग्यतः कित् ।। ७७७ ।। आभ्यां कित्तुन् प्रत्ययो भवति ।। अनौप व्यक्त्यादिषु । अक्तुरिन्द्रो विष्णू रात्रिश्च ।। क् गनौ । ऋतुहेमन्तादिः स्त्रीरजस्तत्कालश्च ।। ७७७ ॥ चायः के च ।। ७७८ ।। चायग् पूजानिशामनयोः ! इत्यस्मात्तुन् प्रत्ययो भवत्यस्य च के इत्यादेशो भवति ।। केतुर्ध्वजो ग्रहश्च ॥ ७७८ ॥ वहिमहिगुह्यधिभ्योतुः ।। ७७९ ।। एभ्योतुः प्रत्ययो भवति || वहीं प्रापणे । वहतुर्विवाहोनडानमिः कालथ ।। मह पूजायाम् । महतुरग्निः ।। गुहौग संवरणे । गृहतुर्भूमिः ॥ एधि बृद्धौ । एधतुर्लक्ष्मीः पुरुषोग्निश्च ।। ७७९ ॥ ___ कृलाभ्यां कित् ।। ७८० ।। आभ्यां किदत्तुः प्रत्ययो भवति ॥ डुकुंग करणे ] ऋतुर्यज्ञः ।। लांक् आदाने | लतुः पाशः ॥ ७८० ॥ तनेर्यतुः ॥ ७८१ ।। तनूयी विस्तारे । इत्यस्माद्यतुः प्रत्ययो भवति ॥ तन्यतुर्विस्तारो वायु: पर्वतः सूर्यश्च ॥ ७८१॥ __ जीवरातुः ।। ७८२ ॥ जीव प्राणधारणे । इत्यस्मादातुः प्रत्ययो भवति || जीवातुर्जीवितमौषधमनमुदकं द्रव्यं च ।। ७८२ ॥ यमेटुक् ।। ७८३ ।। यमूं उपरमे | इत्यस्मारिकदुः प्रत्ययो भवति ।। यदुः क्षत्रियः ॥७८३॥ शीडो धुक् ।। ७८४ ।। शीड्क् स्वप्ने । इत्यस्मारिकत् धुः प्रत्ययो भवति ॥ शीधु मद्यविशेषः ॥ ७८४ ।। Aho I Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy