SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १२२ हेमचन्द्रव्याकरणे अशेरान्नोन्तश्च ।। ७१९ ॥ अशौटि व्याप्तौ । इत्यस्मादुः प्रत्ययो [ भव ]त्यकाराश्च परो नान्तो भवति || अंशू रश्मिः सूर्यश्व | प्रांशुर्दीर्घश्च ।। ७१९ ॥ नमेर्नाक् च ।। ७२० ॥ 2 [ ७१९-७२६ णमं प्रहृत्वे | इत्यस्मादुः प्रत्ययो [भव ] त्यस्य च नाक् इत्यादेशो भवति || नाकुर्व्यलीकं वनस्पतिर्ऋषिर्वल्मीकश्च || ७२० || मनिजनिभ्यां धतौ च ॥ ७२१ ॥ भाभ्यामुः प्रत्ययो [भव ]त्यनयोश्च यथासंख्यं धकारतकारौ भवतः || मर्निच् ज्ञाने । मधु क्षौद्रं सीधु च । मधुरसुरो मासश्च चैत्रः || जनैचि प्रादुर्भावे | जतु लाक्षा || ७२१ ॥ अर्जेर्कज् च ॥ ७२२ ॥ अर्ज अर्जने | इत्यस्मादुः प्रत्ययो [भव ] त्यस्य च ऋज् इत्यादेशो भवति । ऋज्वकुटिलम् || ७२२ ॥ कृतेस्तर्क च ।। ७२३ || कृतैत् छेदने । कृतैर् वेष्टने | इत्यस्माद्वा उः प्रत्ययो [भव ] त्यस्य च तर्क इत्यादेशो भवति || तर्कशुन्दः सूत्रवेष्टनशलाका च ॥ ७२३ || नेरञ्चैः ।। ७२४ ॥ निपूर्वादञ्चतेरुः प्रत्ययो भवति || न्यङ्कर्मृग ऋषिश्च ।। ७२४ ।। किमः श्री णित् || ७२५ ॥ किम्पूर्वात् शृश् हिंसायाम् । इत्यस्माण्णिदुः प्रत्ययो भवति || किशारुः शूको धान्यशिखा हिंस्र इषुच || ७२५ || मिवहिचरिचटिभ्यो वा || ७२६ ॥ एभ्य उ: प्रत्ययो [भवति ] स च णिवा भवति डुमिंग्ट् प्रक्षेपणे | मायुः पित्तं मानं शब्दश्व | गोमायुः सृगालः || मयुः किंनर उष्ट्र: प्रक्षेप आकूतं च | बाहुलकादात्वाभावः || वहीं प्रापणे । बाहुर्भुजः || बहु प्रभूतम् || चर भक्षणे च । चारु शोभनम् || चरन्त्यस्माद्देवपितृभूतानि | भीमादित्वादपादानेपि | चरुर्देवतेोद्देशेन पाकः स्थाली च || चटण् भेदे | चाटुः प्रियाचरणं पटुजनः प्रियवादी स्फुटवादी दमं शिष्यश्च || चटुः प्रियाचरणम् ।। ७२६ ।। Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy