SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ११८ हेमचन्द्रव्याकरणे. [६९६-७०३ . राशदिशकिकयदिभ्यस्त्रिः ॥ ६९६ ॥ एभ्यस्त्रिः प्रत्ययो भवति ।। रांक् दाने | रात्रिनिशा ।। शहू शालने । शचिः कुञ्जरः क्रौञ्चश्च || शकूट शक्तौ । शक्त्रिः क्रौच्च ऋषिश्च || कद वैक्लव्ये सौत्रः । कनिषिः ।। अदं प्सांक भक्षणे | अनिषिः ॥ ६९६ ॥ पतेरत्रिः ॥ ६९७ ॥ पतु गतौ । इत्यस्मादत्रिः प्रत्ययो भवति ।। पतत्रिः पक्षी ॥ ६९७ ॥ नदिवल्लयार्तकृतेररिः ॥ ६९८ ॥ एभ्योरिः प्रत्ययो भवति || णद अव्यक्ते शब्दे । नदरिः पटहः ।। वल्लि संवरणे । वल्लरिलता वीणा सस्यमञ्जरी च ।। क् गतौ । अररिः कपाटः ॥ कृतैत् छेदने | कर्तरिः केशादिकर्तनयन्त्रम् ।। ६९८ ॥ __मस्यसिघसिजस्यङ्गिसहिभ्य उरिः॥ ६९९ ॥ एभ्य उरिः प्रत्ययो भवति ॥ मसैच् परिणामे | मसुरिमरीचिः ।। असूच् क्षेपणे । असुरिः संग्रामः ॥ घसं भदने | घसरिरमिः ।। जसूच मोक्षणे । जसुरिः समाप्तिरशनिररणिः क्रोधश्च ॥ अगु गतौ । अङ्गुरिः करशाखा । लत्वे अङ्गलिः।। पहि मर्षणे । सहुरिः पृथिव्यक्रोधनोनडान्संग्रामोन्धकारः सूर्यश्च ॥ ६९९ ॥ मुहेः कित् ॥ ७००॥ मुहीच वैचित्ये । इत्यस्मात्किदुरिः प्रत्ययो भवति ॥ मुहुरिः सूर्योनद्धांध ॥ ७० ॥ धूमूभ्यां लिक्लिणौ ।। ७०१ ॥ आभ्यां यथासंख्यं लिक् लिण् इति प्रत्ययौ भवतः।। धूग्य कम्पने । धूलिः पांशुः ॥ मूड् बन्धने | मौलिर्जूटः ।। ७०१॥ पाट्यन्निभ्यामलिः ॥ ७०२ ॥ आभ्यामलिः प्रत्ययो भवति ।। पट गतौ । ण्यन्तः । पाटलिक्षविशेषः। अनौप व्यक्क्यादौ । अञ्जलिः पाणिपुटः प्रणामहस्तयुग्मं च ॥ ७०२॥ माशालिभ्यामाकुलिमली ॥ ७०३ ॥ आभ्यां यथासंख्यमोकुलि मलि इत्येतौ प्रत्ययौ भवतः ॥ मांक माने | मौकुलिः काकः । शल गतौ । ण्यन्तः । शाल्मलिवृक्षविशेषः ।। ७०३ ॥ ... Aho 1 Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy