SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे ९८ [५६१-५६५ सौत्रौ || मञ्जूषा काष्ठकोष्ठः || पीयूषं प्रत्ययप्रसवक्षीरविकारीभूतं घृतं च ॥ हक् हिंसागत्योः । हनूषो राक्षतः || अगु गतौ । अङ्गुषः शकुनि जातिर्हस्ती बाणो गश्च || मगु गतौ | मञ्जूषों जलचरशकुनिः || गडु वदनैकदेशे | गण्डूषो द्रत्रकबलः ॥ ऋक् गतौ । अरुषो रविः || ५६० ॥ कोरदूषाटरूषकारूष शैलूषविषादयः || ५६१ ॥ एत ऊषप्रत्ययान्ता निपात्यन्ते || कुरेरदोन्तश्व | कोरदूषः कोद्रवः || आटेररोन्तश्व | आटरूषो वासा | अटनं रूपतीत्यटरूष इति तु पृषोदरादिः ॥ कृ वृद्धिश्व | कारूषा जनपदः || शलेरै चातः । शैलूषो नटः || पिजुण् हिंसादी ! पिञ्जूषः कर्णशष्कुल्याभोगः || आदिशब्दात् प्रत्यूषाभ्यूषादयो भवन्ति ॥ ५६१ ॥ कलेर्मषः || ५६२ ॥ कलिं शब्दसंख्यानयोः । इत्यस्मान्मषः प्रत्ययो भवति || कल्मषं पापम् || ५६२ ।। कुलेश्च माषक् ॥ ५६३ ॥ 1 कुल बन्धुसंस्त्यानयोः । इत्यस्मात्कलेश्व किन्माषः प्रत्ययो भवति || कुल्माबोर्धस्विन्नं माषादि || कल्माषः शबलः ।। ५६३ ।। मावाद्यमिकमिहनि मानिकष्यशिपचिमुचियजिवृतृभ्यः सः || ५६४ || एभ्यः सः प्रत्ययो भवति || मां माने । मासविंशद्रात्रः || वांक् गतिगन्धनयोः । वासा | आटरूषः वद व्यक्तायां वाचि । वत्सस्तर्णक ऋषिः प्रियस्य च पुत्रस्याख्यानम् || अम गतौ | अंसो भुजशिखरम् || कमूड् कान्तौ । कंसो लोहजातिर्विष्णोररातिर्हिरण्यमानं च || हनेक् हिंसागत्योः । हंसः श्वेतच्छदः ॥ मानि पूजायाम् । मांसं तृतीयो धातुः । कष हिंसायाम् | कक्षस्तृणगहनारण्यं शरीरावयवश्व || अशौटि व्याप्तौ । अक्षाः प्रासकाः । अक्षाणीन्द्रियाणि रथचक्राणि च || डुपचष् पाके | पक्षेोर्धमाम्रो वर्ग : शकुन्यवयवः सहायः साध्यं च || मुलुंतीमो क्षणे | मोक्षो मुक्तिः || यजीं देवपूजादौ । यक्षो गुह्यकः || वृग्श् वरणे | वर्सो देशः समुद्रश्व || तू लवनतरणयोः । तस वीतंसः सूर्य || वर्सतर्सयोर्बाहुलकान षत्वम् ॥ ५६४ ॥ व्यवाभ्यां तनेरीच वेः ॥ ५६५ ।। विभव इत्येताभ्यां परात्तनोतेः सः प्रत्ययों [ भवति ] वेरीकारश्चान्तादेशो भवति ॥ वीतंसः शकुन्यवरोधः || अवतंसः कर्णपूरः ॥ ५६५ ।। Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy