SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ४६६-४६९] उणादिगणविवृतिः। . मण्डलं देशः परिवारश्च ॥ मगु गतौ । मङ्गलं शुभम् ॥ पट गतौ । पटलं छदिः समूह आवपनं नेत्ररोगश्च । ण्यन्तात् । पाटलो वर्णः ॥ शकूट शक्तौ । शकलं भि. तमसारं च ॥ केवृड् सेवने । केवलं परिपूर्ण ज्ञानमसहायं च ॥ देवड् देवने । देवल ऋषिदेवत्रातः क्रीडनध || कमूड् कान्तौ । कमलं पद्मम् । णिडि । कामलो नेत्ररोगः ॥ यमू उपरमे । यमलं युग्मम् ।। शल गतौ । शललं सेधाङ्गरुहशङ्कः । कलि शब्दसंख्यानयोः । कललं गर्भप्रथमावस्था ॥ पल गतौ । पललं भृष्टतिलात. सीचूर्णम् ॥ गुंड् शब्दे । गवलो महिषः॥ धूग्श् कम्पने | धवलः श्वेतः ॥ अञ्चू गतौ च | अच्चलो वस्त्रान्तः ॥ चल गतौ । चञ्चलोस्थिरः ॥ चप सान्त्वने । चपलः स एव ।। वहीं प्रापणे । वहीं सान्द्रम् ।। दिहीक्लेपे । देहली द्वाराधःपट्टः ॥ कुहणि विस्मापने । कोहलो भरतसूनुः । बाहुलकाद्गुणः || तु प्लवनतरणयोः । तरलोधीरो हारमध्यमणिश्च ।। सं गतौ । सरलोकुटिलो वृक्षविशेषश्च ॥ पिशत् अवयवे । पेशलो मनोज्ञः ।। तुस शब्दे | तोसला जनपदः ॥ कुसच् श्लेषे । कोसला जनपदः ॥ भनक प्राणने | अनलोमिः ।। द्रम गतौ । द्रमलं जलम् ॥ ४६५ ॥ नहिलङ्गेर्दीर्घश्च ॥ ४६६ ॥ आभ्यामलः प्रत्ययो भव त्यनयोश्च दीर्घो भवति ॥ णहीच बन्धने | नाहलो मेच्छः ।। लगु गतौ । लाङ्गलं हलम् ।। ४६६ ॥ ऋजने!न्तश्च ॥ ४६७ ॥ आभ्यामलः प्रत्ययो [ भवति ] गकारवान्तो भवति ।। क् गतौ । अर्गला परिधः । जनैचि प्रादुर्भावे । जङ्गलं निर्जलो देशः ॥ ४६७ ॥ तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः कित् ॥ ४६८ ॥ एभ्यः किदलः प्रत्ययो भवति || तृपाच प्रीतौ । तृपला लता । तृपलं शुष्कपर्ण शुष्कतृणं च ॥ डुवपों बीजसंताने । उपलः पाषाणः ॥ कुपच क्रोधे । कुपलः प्रवालः ।। कुशच् श्लेषणे | कुशलो मेधावी । कुशलमारोग्यम् ॥ कुटत् कौटिल्ये | कुटल ऋषिः ॥ वृष सेचने | वृषलो दासजातिः ॥ मुसच् खण्डने । मुसलमवहननम् ॥ ४६८ ॥ .. . कोर्वा || ४६९ ॥ कुंड् शन्दे | इत्यस्मादलः प्रत्ययो [भवति ] स च किवा भवति ।। कुवलं बदरम् । कुवली क्षुद्रबदरी । कवलो ग्रासः ।। ४६९ ॥ . Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy