SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ उणादिमण विवृतिः । वृडः शषौ चान्तौ ॥ ३६९ ॥ वृड्श् संभक्तौ । इत्यस्मात्किदयः प्रत्ययो [ भवति ] कारवकारौ चान्तौ भवतः ॥ वृशयं देशनामाकाशमासनं शयनं च || वृषय आशयः || ३६९ ॥ गयहृदयादयः ॥ ३७० ॥ गयादयः शब्दाः किदयप्रत्ययान्ता निपात्यन्ते || गमेर्डिच | गयः प्राणः | गया तीर्थम् || हरतेर्दोन्तश्च | हृदयं मनः स्तनमध्यं च || आदिशब्दात् गणेरेयः । गणेयं गणनीयम् ॥ इत्यादि ३७०॥ ३६९ - ३७६ ] ६३ मुचेर्घौ || ३७१ ॥ ती मोक्षणे । इत्यस्मात् घितावय उय इत्येतौ प्रत्ययौ कितौ भवतः ॥ मुकयो मुकुयश्वाश्वतरादवायां जातः || बित्करणं कत्वार्थम् ॥ ३७१ ॥ कुलिलुलिकलिकषिभ्यः कायः || ३७२ || एभ्यः किदायः प्रत्ययो भवति || कुल बन्धुसंस्त्यानयोः । कुलायो नी - डम् || लुलिः सौत्रः | लुलायो महिषः || कलि शब्दसंख्यानयोः । कलायस्त्रिटः ॥ कष हिंसायाम् । कषायः कल्कादिः || ३७२ || श्रुदक्षिगृहिस्पृहिमहेराय्यः || ३७३ || एभ्य आय्यः प्रत्ययो भवति || श्रुंट् भवणे । श्रवाय्यो यज्ञपशुर्ग्रहणसम. र्थश्व श्रोता || दक्षि हिंसागत्योः । दक्षाय्योभिर्गृध्रो वैनतेयो दक्षतमश्च ॥ गृहणि ग्रहणे | गृहयाय्यो वैनतेयो गृहकर्मकुशलः [च] ॥ स्पृहण् ईप्सायाम् । स्पृहयाय्य: स्पृहयालुर्घृतं च । स्पृहयाय्यानि तृणान्यहानि च || महण् पूजायाम् | महयाय्योश्वमेधः || ३७३ ॥ दधिषाय्यदीषाय्यो || ३७४ ॥ एतावाय्यप्रत्ययान्तौ निपात्येते ॥ दधिपूर्वात् स्यतेः षत्वं च । दधिषाय्यं पृषदाज्यं मृषावादी च || दीव्यतेर्दीधीप् च । दीधीषाय्यं तदेव || ३७४ ॥ कौतेरियः || ३७५ || कुंक् शब्दे । इत्यस्मादियः प्रत्ययो भवति || कवियं खलीनम् ||३७५ ॥ कृगः कित् || ३७६ ।। डुकुंग् करणे | इत्यस्मात्किदियः प्रत्ययो भवति || क्रियो मेषः || ३७६ ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy