SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ३०६ -३१३] उणादिगणविवृतिः । विट शब्दे । विटपः शाखा ॥ कुणत् शब्दोपकरणयोः। कुणपो मृतकं कुषितं शब्दार्थसारूप्यं च ॥ कुषश् निष्कर्षे । कुषपो विन्ध्यः संदंशश्च || उषू दाहे | उषपो दाहः सूर्यो वह्निश्च ।। ३०५ ॥ शंसेः श इन्चातः ॥ ३०६ ।। शंसू स्तुतौ च । इत्यस्मादपः प्रत्ययो [ भवति ] तालव्यशकारान्तादेशोकारस्य च इकारो भवति ॥ शिंशपा वृक्षविशेषः ॥ ३०६ ॥ विष्टपोलपवातपादयः ॥ ३०७ ॥ विष्टपादयः शब्दाः किदपप्रत्ययान्ता निपात्यन्ते ।। विषेस्तोन्तश्च । विष्टप जगत्सुकृतिनां स्थानं च || बलेरुल च । उलपं पर्वततणं पङ्कजं जलं च । उलप ऋषिः । वातेस्तोन्तश्च | वातप ऋषिः ।। आदिग्रहणात् खरपादयोपि भवन्ति कलेरापः || ३०८ ॥ कलि शब्दसंख्यानयोः । इत्यस्मादापः प्रत्ययो भवति ॥ कलापः काञ्ची समूहः शिखण्डश्च ।। ३०८ ॥ विशेरीपक् ॥ ३०९ ॥ विशंत् प्रवेशने । इत्यस्मादिपक् प्रत्ययो भवति ॥ विशिपो राशिः । विशिपं तृणं वेदमासनं पद्मं च ।। ३०९ ॥ दलेरीपो दिल् च ॥ ३१०॥ दल विशरणे । इत्यस्मादीपः प्रत्ययो भवति दिल चास्यादेशो भवति ॥ दिलीपो राजा ॥ ३१ ॥ उडेरुपक् ॥ ३११ ॥ उड् संघाते । इति सौत्रादुपक् प्रत्ययो भवति ।। उडुपः प्लवः । जपादिस्वाइत्वे । उडुवः ।। ३११ ॥ __ अश ऊपः पश्च ॥ ३१२ ॥ अशौटि व्याप्तौ । इत्यस्मादूपः प्रत्ययो [ भवति ] पश्चान्तादेशो भवति || अपूपः पक्कानविशेषः ।। ३१२॥ सर्तेः षपः ॥ ३१३ ।। गतौ । इत्यस्मात् षपः प्रत्ययो भवति || सर्षपो रक्षोनं द्रव्यं शाकं च॥ ३१३ ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy