SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे [२४७-२५४ यतो यमुना प्रभवति ।। अली भूषणादौ । अलिन्दः प्रघाणो भाजनस्थानं च ॥ पुल महत्त्वे । पुलिन्दः शबरः ।। कुरत् शब्दे । कुरिन्दः सस्यमलहरणोपकरणं तेजनोपकरणं च ।। कुणत् शब्दोपकरणयोः । कुणिन्दो मेच्छः शब्द' उपकरणं च || मण शब्दे । मणिन्दोश्वबल्लवः ।। २४६ ॥ कुपेर्व च वा ।। २४७ ॥ कुपच् क्रोधे । इत्यस्मादिन्दक् प्रत्ययो भवति वथान्तादेशो वा भवति ॥ कुपिन्दः । कुविन्दस्तन्तुवायः॥ २४७ ॥ पृपलिभ्यां णित् ।।२४८॥ आभ्यां णिदिन्दक् प्रत्ययो भवति || पृश् पालनपुरणयोः ॥ पल गतौ । पारिन्दः । पालिन्दः । द्वावपि वृक्षगाथको ॥ पारिन्दो मुख्यः पूज्यश्च ॥ पालिन्दो नृपतिः । रक्षकथेत्येके || २४८ ।। यमेरुन्दः ।। २४९॥ यम उपरमे । इत्यस्मादुन्दः प्रत्ययो भवति ।। यमुन्दः क्षत्रियविशेषः ॥ २४९ ॥ मुचेडुकुन्दकुकुन्दौ ।। २५० ॥ मुचुती मोक्षणे । इत्यस्माड्डिदुकुन्दः किदुकुन्दश्च प्रत्ययो भवतः ॥ मुकुन्दो विष्णुः । मुचुकुन्दो राजा वृक्षविशेषश्च ।। २५० ।। स्कन्द्यमिभ्यां धः ।। २५१॥ आभ्यां धः प्रत्ययो भवति || स्कन्दं गतिशोषणयोः । स्कन्धो बाहुमूर्धा ककुदं विभागश्च । बाहुलकाहस्य लुक || अम गतौ । अन्धश्चक्षुर्विकलः।।२५१|| नेः स्यतरधक ॥ २५२॥ निपूर्वात् षोंच् अन्तकर्मणि । इत्यस्मादधक् प्रत्ययो भवति ॥ निषधः पर्वतः । निषधा जनपदः ॥ २५२।।। मङ्गे लुक् च ।। २५३ ॥ मगु गतौ । इत्यस्मादधक् प्रत्ययो भवति ] नकारस्य च लुग्भवति ॥ मगधा जनपदः ॥ २५३ ॥ आरगेर्वधः ।। २५४|| आड्पूर्वात् रगे शङ्कायाम् । इत्यस्मादधः प्रत्ययो भवति ।। आरग्वधो वृक्षजातिः ॥ २५४ ॥ Aho 1 Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy