SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ २१४-२२१] . उणादिगणविवृतिः। अदो भुवो डुतः ॥ २१४ ॥ अद्पुर्वात् भुवो डुतः प्रत्ययो भवति || अद् विस्मितं भवति तेन तस्मिन्वा मनः । अद्भुतमाश्चर्यम् ॥ २१४ ।। कुलिमयिभ्यामूतक् ।।२१५ ।। आभ्यामूतक् प्रत्ययो भवति ॥ कुल बन्धुसंस्त्यानयोः । कुलूना जनपदः ॥ मयि गतौ | मयूता वसतिः ।। २१५ ॥ जीवेर्म च ॥२१६॥ जीव प्राणधारणे | इत्यस्मादतक् प्रत्ययो भवति मश्वान्तादेशो भवति ॥ जीमूतो मेघो गिरिश्च ।। २१६ ॥ करोतः प् च ॥ २१७ ॥ कबृड् वर्णे । इत्यस्मादोतः प्रत्ययो [ भवति ] पश्चान्तादेशो भवति ॥ कपोत: पक्षी वर्णश्च ।। २१७॥ आस्फाडित् ।। २१८ ॥ आड्पूर्वात् स्कायैड् वृद्धौ । इत्यस्माडिदोतः प्रत्ययो भवति ॥ आस्फोता नामौषधिः ॥ २१८ ॥ जविशिभ्यामन्तः ॥२१९॥ आभ्यामन्तः प्रत्ययो भवति ॥ जृष्च् जरसि | जरन्तो भूतग्रामो वृद्धो माहेषश्च ॥ विशंत् प्रवेशने ।वेशन्तः पल्वलं वल्लभोप्राप्तापर्वर्ग आकाशं च ॥२१९।। रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि ॥ २२० ॥ एभ्य आशिषि टिदन्तः प्रत्ययो भवति ॥ रुहं जन्मनि । रोहतात् । रोहन्तो वृक्षः । रोहन्त्योषधिः ।। टुनदु समृद्धौ । नन्दतात् । नन्दन्तः सखानन्दश्व । नन्दन्ती सखी ॥ जीव प्राणधारणे । जीवतात् । जीवन्त आयुष्मान् । जीवन्ती शाकः ॥ अनक् प्राणने | प्राण्यात् । प्रागन्तो वायू रसायनं च । प्राणन्ती स्त्री ।। २२० ॥ तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिगण्डिमण्डिनन्दि- .. रेविभ्यः ॥२२१ ॥ एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके ॥ तृ प्लवनतरणयोः । तरन्त आदित्यो भेकथ । तरन्ती स्त्री ॥ जिं अभिभवे | जयन्तोरथरेणुर्वज इन्द्रपुत्रो Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy