________________
१९९-१९९]
उणादिगणविवृतिः। . धृषाणो देवः ॥ मृषू सहने च । मृषाणः ।। युषि सेवने सौत्रः । युषाणः ॥ द्रुहोच् जिघांसायाम् | Qहाणो मुखरः ॥ ग्रहीश् उपादाने । गृहाणः ॥ वृषाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेपि कर्तरि कारके विज्ञेयाः।। १९१॥
पषो णित् ॥ १९२ ॥ पषी बाधनस्पर्शनयोः। इत्यस्मादाणक् प्रत्ययो भवति स च णित् भवति]|| पाषाणः प्रस्तरः ॥ १९२ ॥
कल्याणपर्याणादयः ॥ १९३ ॥ कल्याणादयः शब्दा आणक्प्रत्ययान्ता निपात्यन्ते ॥ कलेयोन्तश्च । कल्याणं श्वोवसीयसम् ।। परिपूर्वात् इणो लुक् च । पर्याणमश्वादीनां पृष्ठच्छदः ॥ आदिशब्दात् द्रेकाणबोकाणकेकाणादयोपि भवन्ति ॥ १९३ ॥
द्रुहवृहिदक्षिभ्य इणः ॥ १९४ ।। एभ्य इणः प्रत्ययो भवति । गतौ । द्रविणं द्रव्यम् ।। हंग् हरणे । हरिणो मृगः ।। वृह वृद्धौ । बर्हिणो मयूरः ॥ दक्षि शैध्ये च । दक्षिणः कुशलोनुकूलश्च । दक्षिणा दिग् ब्रह्मदेयं च ॥ १९४ ॥
__ ऋदुहेः कित् ॥ १९५ ॥ आभ्यां किदिणः प्रत्ययो भवति ।। ऋश् गतौ । इरिणमषरं कुचो वनदुर्गं च || दुहीच जिघांसायाम् । द्रुहिणो ब्रह्मा क्षुद्रजन्तुश्च ॥ १९५ ॥
ऋकृवृधदारिभ्य उणः ।। १९६ ॥ एभ्य उणः प्रत्ययो भवति || क गतौ । अरुणः सूर्यसारथिरुषा वर्णश्च॥ कृत् विक्षेपे । करुणा दया | करुणः करुणाविषयः | करुणं दैन्यम् ।। वृश् भरणे | वरुणः प्रचेताः ॥ धृग् धारणे । धरुणो धर्तायुक्तो लोकश्च ।। दृश् विदारणे । णौ । दारुण उपः ॥ १९६ ।।
क्षः कित् ।। १९७ ॥ ई क्षये । इत्यस्मास्किदुणः प्रत्ययो भवति ।। क्षुणो व्याधिः क्षामः क्रोध उन्मत्तश्च ।। १९७॥
भिक्षुणी ॥ १९८ ॥ भिक्षेरुणः प्रत्ययो भवति डीश्च निपात्यते || भिक्षुणी प्रतिनी ।। १९८ ॥
गादाभ्यामेष्णक् ।। १९९ ॥ आभ्यामेष्णक् प्रत्ययो भवति । में शब्दे । गेष्णो मेष उद्गाता रङ्गोपजीवी
Aho! Shrutagyanam