SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे [१७४-८२ - पूगो गादिः ॥१७४॥ पूग्श् पवने । इत्यस्माद्कारादिरण्डः प्रत्ययो भवति ।। पोगण्डो विकलाङ्गो युवा च ॥१७४॥ वनेस्त् च ॥१७॥ वन भक्तौ । इत्यस्मादण्डः प्रत्ययो भवति तकारवान्तादेशो भवति ॥ वतण्ड ऋषिः ॥१७॥ पिचण्डैरण्डखरण्डादयः ॥१७६॥ एतेण्डप्रत्ययान्ता निपात्यन्ते ॥ पिचेरगुणत्वं च | पिचण्डो लघुलगुडः ॥ ईरेर्गुणश्च । एरण्डः पञ्चाङ्गुलः ॥ खादृ भक्षणे । अन्त्यस्वरादेररादेशश्च । खरण्डः सर्वकम् ।। मादिग्रहणात् कूष्माण्डशयण्डशयाण्डादयोपि भवन्ति ।।१७६।। लगेरुडः ॥ १७७ ॥ लगे सङ्गे । इत्यस्मादुडः प्रत्ययो भवति ॥ लगुडो यष्टिः ।। गृजढवभभ्यस्तु उडो विहित एव ॥ १७७ ।। कुसेरुण्डक् ॥ १७८ ॥ कुसच् श्लेषे । इत्यस्मा दुण्डक् प्रत्ययो भवति ॥ कुसुण्डो वपुष्मान् ।।१७८।। शमिषणिभ्यां ढः ॥ १७९ ॥ आभ्यां ढः प्रत्ययो भवति || शमूच् उपशमे । शण्डः नपुंसकम् ॥ षन भक्तौ । षण्डः स एव । बाहुलकात्सस्वाभावः ॥ १७९ ॥ कुणेः कित् ॥ १८० ॥ कुणत् शब्दोपकरणयोः । इत्यस्मात्किड्डः प्रत्ययो भवति ॥ कुण्ढो धूर्तः बाहलकान दीर्घः ॥ १८ ॥ नञः सहेः षा च ॥ १८१ ॥ नपूर्वात् पहि मर्षणे । इत्यस्माड्ढः प्रत्ययो भवति षा चास्यादेशो भवति ।। अषाढा नक्षत्रम् ॥ १८१ ।। इणुर्विशावणिप्रकृवतृदृसृपिपणिभ्यो णः ॥ १८२ ॥ एभ्यो णः प्रत्ययो भवति || इण्क् गतौ । एणः कुरङ्गः ॥ उर्वै हिंसायाम् । ऊर्णा मेषादिलोम भ्रुवोरन्तरावर्तश्च ॥ शोंच तक्षणे । शाणः परिमाणं Aho 1 Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy