________________
१४३-५०
उणादिगणविवृतिः।
कुलिविलिभ्यां कित् ॥ १४३ ॥ आभ्यां किदटः प्रत्ययो भवति ॥ कुल बन्धुसंस्त्यानयोः । कुलटा बन्धकी ॥ विलत् वरणे | विलटा नदी ॥ १४३ ॥ .
कपटकीकटादयः ॥ १४४ ॥ कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते || कम्पेनलोपश्च । कपटं माया।। करत ईञ्च । कीकटः कृपणः।। आदिग्रहणात् लघटपर्पटादयो भवन्ति ।। १४४ ॥
अनिशृपृवृललिभ्य आटः॥ १४५ ॥ एभ्य आटः प्रत्ययो भवति ।। अनक् प्राणने । अनाटः शिशुः ॥ शृश् हिंसायाम् | शराटः शकुन्तः ॥ पृश् पालनपूरणयोः । पराट आयुक्तकः।। वृड्श् संभक्तौ । वराटः सेवकः ।। ललिण् ईप्सायाम् । ललाटमलिकम् || १४५ ॥
सृसृपेः कित् || १४६ ॥ आभ्यां किदाटः प्रत्ययो भवति ।। सुं गतौ । साटः पुरःसरः ॥ सूपं गतौ । सृपाटोल्पः कुमुदादिपत्रं च । सृपाटयुपानकुप्यमल्पपुस्तकश्च ।। १४६ ॥
किरो लश्च वा ॥ १४७ ॥ किरतेः किदाटः प्रत्ययो भवति लश्चान्तो वा भवति || किलाटो भक्ष्यविशेषः । किराटो वणिग् म्लेच्छश्च ॥ १४७ ॥
कपाटविराटशुकाटप्पुनाटादयः ॥ १४८ ॥ एत आटप्रत्ययान्ता निपात्यन्ते ॥ कम्पेनेलोपश्च । कपाटोररिः । जपादीनां पो व इति वत्वे । कवाटः ॥ वृड इत्वं च । विराटो राजा || अयतेः शृङ्ग च | शृङ्गाट जलजविशेषो विपणिमार्गश्च ।। प्रपूर्वात् पुणेर्नश्च । प्रपुनाट एडगजः ॥ आदिशब्दात् खल्वाटादयो भवन्ति ॥ १४८ ॥
चिरेरिटो भ् च ।। १४९ ।। चिरेः सौत्रादिटः प्रत्ययो भवति भकारवान्तादेशो भवति ॥ चिमिटी वालुङ्की ।। १४९ ॥
टिण्टश्चर् च वा ॥ १५० ।। चिरेष्टिदिण्टः प्रत्ययो भवति चर होते चास्यादेशो वा भवति ॥ चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री ।। १५० ।।
Aho! Shrutagyanam