SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ २२ हेमचन्द्रव्याकरणे [१०८-११४ काङ्क्षायाम् । तुङ्गो महावर्त्मा || शमूच् उपशमे । शुङ्गो मुनिः । शुङ्गाः कन्दल्यः | शुङ्गा विनता ॥ १०७ ॥ सर्तेः सुर् च ।। १०८ ॥ सृ गतौ । इत्यस्मादुङ्गः प्रत्ययो [ भवति ] सुर् चास्यादेशो भवति ।। सु[ रु]ङ्गा गूढमार्गः || १०८॥ स्थाजिनिभ्यो घः ॥ १०९ ॥ एभ्यो घः प्रत्ययो भवति ॥ ष्ठां गतिनिवृत्तौ । स्थाधो गाधः || * प्रापणे च । अर्धो मूल्यं मानप्रमाणं पादोदकादि च || जनैचि प्रादुर्भावे | जङ्घा शरीरावयवः || १०९ ॥ मघाघङ्घाघदीर्घादयः ॥ ११० ॥ एते घप्रत्ययान्ता निपात्यन्ते || मन्घलोपश्च । मघा नक्षत्रम् || हन्तेर्हस्य घश्व | घड्वो घस्मरः | बङ्घा काङ्क्षा || अमेर्लुक् च | अघं पापम् || दृणातेर्दीर् च । दीर्घ आयत उच्चश्व || आदिशब्दादन्येपि ॥ ११० ॥ सर्वैरवः ।। १११ ।। सृ गतौ । इत्यस्मादधः प्रत्ययो भवति ॥ सरघा मधुमक्षिका ॥ १११ ॥ कुपूसामिणभ्यश्चद् दीर्घश्च ॥ ११२ ॥ कुपूभ्यां सम्पूर्वाच्च इणश्वर् प्रत्ययो [ भवति ] दीर्घश्व भवति । टो ड्यर्थः || कुंड् शब्दे | कूचो हस्ती । कूची प्रमदा चित्रभाण्डमुदश्विद्विकार || पूग्श् पवने | पूत्र: पूची मुनिः || इण्क् गतौ । समीच ऋत्विक् । समीचं मिथुनयोगः | समीची पृथिवी | उदीची च । दीर्घवचनाङ्गुणो न भवति ॥ ११२ ॥ कूर्चचूर्चादयः ।। ११३ ॥ कूर्च इत्यादयः शब्दाश्चट्प्रत्ययान्ता निपात्यन्ते || कवते: किरतेः करोतेर्वा | ऊरादेशश्रान्तस्य | कूर्चे दमश्वासनं तन्तुवायोपकरणं यतिपवित्रकं च । कूर्चमिव कूर्चकः कूर्चिकेति च भवति || चरतेश्वरयतेर्वा चूरादेशश्च । चूचें बलवान् ॥ आदिशब्दादन्येपि ॥ ११३ ॥ कल्यविमदिमणिकुकणिकुटिकृभ्योचः ।। ११४ ॥ एभ्योचः प्रत्ययो भवति || कलि शब्दसंख्यानयोः | कलचो गणकः ॥ Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy