SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 33 हेमचन्द्रव्याकरणे प्रमुदिभ्यां कित् ॥ ९३ ॥ आभ्यां किद्भः प्रत्ययो भवति ॥ पूग्श् पवने । पूगः संघातः क्रमुकश्च ॥ मुदि हर्षे | मुद्रो धान्यविशेषः ।। ९३ ।। [९३-१०० भृवृभ्यां नोन्तश्च || ९४ ॥ आभ्यां किद्गः प्रत्ययो [भवति ] नकारश्चान्तो भवति || टुडुभृंग्क् पोषणे च | भृङ्गः पक्षी भ्रमरो वर्णविशेषो लवङ्गश्व || वृग्ट् वरणे । वृङ्ग उपपतिः || ९४ ॥ द्रमो णिद्वा ।। ९५ ॥ द्रम गतौ । इत्यस्माद्गः प्रत्ययो भवति स च णिवा भवति || द्राङ्गं शीघ्रम् । ब्राङ्गः पांशुः । द्रङ्गो नगरम् | द्रङ्गा शुल्कशाला ॥ ९५ ॥ शृङ्गशादियः ।। ९६ । शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते || शूरा हिंसायाम् । इत्यस्य नोन्तो हस्वश्च | शृङ्गं विषाणं शिखरं च । तस्यैव नोन्तो वृद्धिश्च । शार्ङ्गः पक्षी । आदियहणात् हंग् हरणे | हार्गः परितोषः || मृत् प्राणत्यागे । मार्गः पन्थाः ।। ९६ । तडेरागः ॥ ९७ ॥ तडण् आघाते । इत्यस्मादागः प्रत्ययो भवति || तडागं सरः || ९७ । पतितमितृपृकृशुल्वादेरङ्गः ।। ९८ ।। एभ्योङ्गः प्रत्ययो भवति || पलृ गतौ । पतङ्गः पक्षी शलभः सूर्यः शालविशेषश्च ॥ तमूच् काङ्गायाम् । तमङ्गो हर्म्यनिर्यूहः || तू प्लवनतरणयोः | तरङ्ग ऊर्मिः || पृश् पालनपूरणयोः । परङ्गः खगो वेगश्च || कृत् विक्षेपे । करङ्गः कर्मशीलः || शृश् हिंसायाम् | शरङ्गः पक्षिविशेषः || लूग्श् छेदने । लवङ्गः सुगन्धिवृक्षः || आदिग्रहणादन्येभ्योपि ॥ ९८ ॥ सृवृनृभ्यो णित् || ९९ ।। एभ्यो णिदङ्गः प्रत्ययो भवति ॥ सृ गतौ | सारङ्गो हरिणश्चातको शबलवर्णश्व || वृग्ट् वरणे | वारङ्गः काण्डखड्योः शल्यं शकुनिश्व || नृय् नये | नारङ्गो वृक्षजातिः ।। ९९ ।। मनेर्मत्मातौ च ॥ १०० ॥ मनिच् ज्ञाने | इत्यस्मादङ्गः प्रत्ययो [ भवति ] मत्माती चास्यादेशौ भवतः ॥ मतङ्ग ऋषिस्ती च || मातङ्गो हस्त्यन्त्यजातिश्व ॥ १०० ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy