SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ दैवी वाक् व्यवकीर्णेय मशक्तै रभिधातृभिः । इति । कथमिय मशक्तिरिति तु न प्रयत्नावगम्यम् । "अम्बम्बेति यथावालः शिक्षमाणः प्रभाषत।" इत्यादिरीत्या देश काल भदेनैव प्रतीमहे ॥ घनमध्यपञ्चलादिदेशजानां परस्पर मेकस्यैव शब्दस्व जागरु. को महानुश्चारण भेद एव विप्रतिपन्नानां तुष्टिदो भविष्यति । हेमोऽपि-प्रकृतिः संस्कृतम्। तत्र भवं तत आगतं वा प्राकृतम् । इति । तथाच गीतगोविन्द रसिकसर्वस्वः "संस्कृतात्प्राकृतम् इष्टं ततो उपभ्रंशभाषणम्” इति शस्तलायां शङ्करोऽपि संस्कृतात्प्राकृतं श्रेष्ठं ततो ऽभ्रंश भाषणम् इति प्रमाणत्वनोदाजहार-संस्कृताद श्रेष्ठं प्राकृतं जातम् ततोऽपभ्रंशः । कचित्तु प्रकृत्या स्वभावेन सिद्धम् प्राकृतम् । ततश्च वैयाकरणः साधितं हि संस्कृत मित्यभिधीयते । अतो न सँस्कृतमूलकम् प्राकृतम । प्रत्युत प्राकृत मूलकमेव संस्कृतम् । इत्याहुः । अपरेतु वेदमूलकमिदम् । त्तनत्वनादिप्रत्ययानाम्, अम्हे अस्मे. आदि पदानां, लिङ्ग वचन विभक्त्यादीनाञ्च वैदिकैः प्रयोगैः साम्यदर्शनात् । एतन्मूलकं च संस्कृतम् । इति वदन्ति । ___ साम्प्रदायिकै स्तूभयमपि नाद्रियते-यदि स्वभावसिद्धम् प्राकसम्, तर्हि कोऽसौ स्वभावः कीदृशश्च येनेगव भाषणं स्यात् । किं समेवतश्च । जनसमवेतश्चेद "देवीवाग व्यवकीर्णेय" मित्यस्मदभि. तेपक्षपातः । पारमेश्वरे तु स्वभावे वैरूप्यं नापपद्यते-नह्यग्नो शैत्यं कचिदपिकदाप्युलभ्यत । एवम् तत्तद्भाषाभदः सुतरांनोपपद्यते। __ सर्वासामेव भिन्नानामपि पारमेश्वरस्वभावसिद्धत्वे तु भाषापरिक्षानिनां विदुषां महान् कोलाहला भविष्यति । अथ च यदीयं भाषा वेदभाषा समुद्भवा तत्समकालिका संस्कृताप्राचीना वा स्वीक्रियते तर्हि पाणिनीयव्याकरणस्याऽपूर्णतास्यात् तत्र प्राकृत स्याऽव्याकृतत्वात् । भगवतापाणिनिना च तत्र २ वाहुलकेनाऽपि वैदिकशब्दव्याकृत्या स्वव्याकरणस्य पूर्णता. याः प्रदर्शनात् । तथा च गावी गोणी-गोपातलिकेत्यादीनाम: पि असाधुशब्दत्वव्यवहारोनोपयुज्येत । प्रत्युत संस्कृताद्वितस्य प्राकृतस्येव प्राकृता द्विकृतस्य संस्कृतस्यै वा पभ्रंशव्यवहारापत्तिः स्यात् । न तथा व्यवहारस्तथान्युत्पन्नानामपीष्टः। न ह्यास्त राजाशा Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy