________________
७२
मुहूर्तचिंतामणी
1
वहारः साध्यः । सायनगणना तु नियतविषयैव । अयनांशाः प्रदातव्या लग्ने क्रांतौ गमे । वित्रिभे सत्रिभे पाते तथा दृक्कर्मपातयोरीति । एवं द्वयोरपि मानयोरसंकीर्णो हार इति सर्वमनाकुलम् । पुण्यकालस्तु उभयविधसंक्रमेऽपि ज्ञेयः । पूर्वलिखितवाक् स्वरसात् ॥ ९ ॥
अथसंक्रांत्युपयोगित्वाज्जघन्यबृहत्समनक्षत्राण्युपजात्याह
समं मृदुक्षिप्रवसुश्रवोऽग्निमघात्रिपूर्वास्त्रपभं बृहत्स्यात् ॥ ध्रुवद्विदैवादितिभं जघन्यं सापवुपार्द्रानिलशाक्रयाम्यम् ॥ १०
सममिति ॥ मृदुक्षिप्रवसुश्रवोनिमा त्रिपूर्वास्त्रपभं समम् । अस्त्रपभं मूलं एतानि पंचदश भानि समसंज्ञानि ज्ञेयानि । ध्रुवद्विदैवादितिभं बृहत्स्यात् । ध्रुवादिषड्भानि बृहत्सं ' ज्ञकानि । सापबुपार्द्रानिलशाक्रयाम्यं जघन्यं स्यात् । आश्लेषादिषड्भानि जघन्यसंज्ञानि ॥ १० ॥
अथ संज्ञाप्रयोजनमुपेंद्रवज्जयाह
जघन्यभे संक्रमणे मुहूर्ताः शरेंदवो बाणकृता बृहत्सु ॥ खरामसंख्याः समभे महर्घसमर्धसाम्यं विधुदर्शनेऽपि ॥ ११ ॥
जघन्य इति ॥ जघन्यनक्षत्रेऽर्कसंक्रमणे पंचदश मुहूर्ता ज्ञेयाः । बृहन्नक्षत्रे - ऽर्कसंक्रमणे बाणकृताः पंचचत्वारिंशन्मुहूर्ता ज्ञेयाः । समनक्षत्रेऽर्कसंक्रमणे खरामसंख्यास्त्रिंशन्मुहूर्ता ज्ञेयाः । उक्तं च नारदेन । तासां प्रमाणं घटिकास्त्रिंशन्नवतिषष्टय इति । फलमाह । महर्घसमर्घसाम्यमिति पंचदशमुहूर्तायां संक्रांतौ सर्वमन्नं महर्षं दुष्प्रापं भवति । पंचचत्वारिंशन्मुहूर्तायां संक्रांतौ समर्थ त्रिंशन्मुहूर्तायां संक्रांतौ समं यथास्थितं भवति । विधुदर्शनेऽपीति । चंद्रदर्शनेऽप्येवमेव फलं वाच्यम् । अयमर्थः । जघन्यभे चंद्रदर्शने महम् । बृहन्नक्षत्रे चंद्रदर्शने समर्धम् । समभे चंद्रदर्शने साम्यम् ॥ ११ ॥ अथ प्रसंगात्कर्क संक्रांतावब्दविशोपकाननुष्टुभाह
अर्कादिवारे संक्रांत कर्कस्याब्दविशोपकाः ॥
दिशो नखा गजाः सूर्या धृत्योऽष्टादश सायकाः ।। १२ ।। अदीति ॥ कर्कसंक्रांतौ अर्कादिवारे सति एतेऽब्दविशोपका ज्ञेग्नाः । यथ रविवारे कर्कसंक्रांतौ दश विशोपकाः । एवं सोमे विंशतिः भौमेऽष्टौ ज्ञे द्वादश गुरौ धृत्यो sष्टादश शुक्रेऽष्टादश शनौ पंचेत्यर्थः ॥ १२॥
Aho! Shrutgyanam