________________
नक्षत्रप्रकरणम् । शांतिपाठं च कारयेत् । ब्राह्मणान्भोजयेच्छक्त्या दीनानाथांश्च तर्पयेत् ॥ एवं शांतिवि. धानेन सर्वारिष्टं प्रलीयते ॥ इति त्रीतरशांतिः ॥ अथ चंद्रसूर्यग्रहणसमयजननशांतिः ॥ ग्रहणे चंद्रसूर्यस्य प्रसूतिर्यदि जायते । व्याधिपीडा तदा स्त्रीणामादौ तु ऋतुदर्शनात् ॥ शांतीस्तेषां प्रवक्ष्यामि नराणां हितकाम्यया । यस्मिनृक्षे विशेषेण ग्रहणं संप्रजायते ॥ तहक्षाधिपते रूपं सुवर्णन प्रकल्पयेत् । यथाशत्त्यनुसारेण वित्तशाव्यं न कारयेत् ॥ सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः । चांद्रं चंद्रग्रहे धीमान् रजतेन विशेषतः ॥ राहुरूपं प्रकुवीत नागेनैव विचक्षणः । नागेन सीसकेन । शुचौ देशे प्रयत्नेन गोमयेन प्रलेपयेत् । तस्योपरि न्यसद्धीमानन्नं वस्त्रं सुशोभनम् ॥ त्रयाणां चैव रूपाणां स्थापनं तत्र कारयेत् । रक्ताक्षतं रक्तगंधं रक्तपुष्पांबराणि च ॥ सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् । श्वेतवस्त्रं श्वेतमाल्यं श्वेतगंधाक्षतादिकम् ॥ चंद्रग्रहे प्रदातव्यं चंद्रप्रीतिकरं च यत् । राहवे चैव दातव्यं कृष्णपुष्पांबरादि च ॥ दद्यान्नक्षत्रनाथाय श्वेतगंधानुलेपनम् । सूर्य संपूजयेद्धीमानाकृष्णेनेति मंत्रतः ॥ चंद्रग्रहे तथा सम्यगाप्यायस्वेति मंत्रतः । स्वर्भानोरिति मंत्रेण राहुं यत्नेन पूजयेत् ॥ एवं संपूजयेद्धीमान्समिद्भिश्चार्कसंभवैः । चंद्रग्रहे च पालाशैः समिद्भिर्जुहुयानरः ।। दूर्वाभिर्जुहुयाद्धीमान् राहोः संप्रीणनाय च । समिद्भिर्बझवृक्षोत्थैर्भेशाय जुहुयाद्वधः ॥ भेशाय नक्षत्राधिपतये । आज्येन चरुणा चैव तिलैश्च जहयात्ततः । पंचगव्यैः पंचरत्नैः पंचत्वपंचपल्लवैः ॥ जलेरोषधिकल्कैश्च सहितैः कलशोदकैः । ओषधिकल्कैः सर्वौषधिकल्कैः । अभिषेकं प्रकुर्वीत यजमाने प्रयत्नतः । मंत्रैर्वारुणदेवत्यैरापोहिष्ठादिभिः सह ॥ इममे गंगे परतस्तत्वायामीति मंत्रकैः । अभिषेके निटत्ते तु यजमानः समाहितः ॥ आचार्य पूजयेत्पश्चात्सुशांतो विजितेंद्रियः । ततो दद्यात्प्रयत्नेन भक्त्या प्रतिकृतित्रयम् ॥ गां चैव दक्षिणां दद्याद्यजमानः समाहितः । अनेन विधिना शांतिं कृत्वा सम्यग्विशेषतः ॥ अकालमृत्युं शोकं च व्याधिपीडां च नाप्नुयात् । सौख्यं सौमनसं नित्यं सौभाग्यं लभते नरः ॥ इत्थं ग्रहणजातानां सर्वारिष्टविनाशनम् । कथितं भार्गवेनेदं शौनकाय महात्मने ॥ इति शौनकोक्ता ग्रहणजननशांतिः ॥ अथ ज्वराद्युत्पत्तिकालीननक्षत्रशांतिः ॥ तत्र साधारणो विधिः । यस्मिन्नक्षत्रे ज्वरादिपीडा भवति तन्नक्षत्राधिदेवताप्रतिमां सुवर्णेन कारयित्वा अमुकनक्षत्रसंभूतव्याधिशांत्यर्थ नक्षत्रशांतिं करिष्य इति संकल्प्य शुचिप्रदेशे गोमयेनोपलिप्ते तंदुलैश्चतुरस्त्रं मंडलं निर्माय तन्मध्ये तत्तद्देवतावर्णवस्त्रद्वयवेष्टितग्रंथिं चंदनादिचर्चित कलशं धान्यस्योपरि विन्यस्य तत्र सर्वोषधीः पंचरत्नानि पंचसव्यानि सप्त मृत्तिकाः पंच पल्लवान्स्वस्वमंत्रेण निक्षिप्य सर्वे समुद्रा इति तत्र तीर्थान्यावाह्य तत्त्वायामीति वरुणमावाह्य संपूज्य स्वस्वगृह्योक्तविधिनाग्निं प्रतिष्ठाप्य आज्यभागांते तत्तन्नक्षत्राधिदेवतामंत्रेण तन्नक्षत्रपूर्वोत्तरनक्षत्रदेवतामंत्रेण तत्तव्येण च होमं
Aho ! Shrutgyanam