SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नक्षत्रप्रकरणम् । पौष्णं रेवती वारुणभं शततारा । पूर्वोक्ते त्रिपुष्करदिने न्यूनाधिमासे क्षयमासे अधिकमासे अयने याम्ये अब्दात्परतः अब्दमध्ये याम्यायनेऽपि कार्यः । नंदामदनभूतामापातवैधृतिविष्टिषु । शुक्रार्किभौमपरिधध्रुवमिश्रो मैत्रभैः ॥ कर्तुश्चंद्रेऽष्टवेदांत्ये जन्मप्रत्यरितारके । त्रिपादभे सिते पक्षेऽयने याम्येऽब्दतः परम् || शवप्रतिकृतेर्दाहः शुक्रेज्यास्ताधिमासके । नष्टो मध्यो द्विपान्मैत्रद्वीशादिति भगध्रुवे इति निबंधोक्तेः । दिनक्षयोऽपि वर्ज्यः । वर्जयेत्तु दिनक्षयमिति गार्योक्तेः । पातपरिघे पातो व्यतीपातो महापातश्च परिघच एतेषु दाहो न कार्यः । देवेज्यशुक्रास्तके दाहो न कार्यः । भद्रायां वैधृतौ च तथा सिते शुक्लपक्षे इति ॥ ११॥ अथ तेनैव छंदसा वर्ज्यातराण्याह 1 ४७ जन्मप्रत्यरितारयोर्मृतिसुखांत्येऽजे च कर्तुर्न स न्मध्य मैत्रभगादितिध्रुवविशाखायंधिभे ज्ञेऽपि च ॥ श्रेष्ठोऽज्यविधोदिने श्रुतिकरस्वात्यश्विपुष्ये तथा Farशौचात्परतो विचार्यमखिलं मध्ये यथासंभवम् ॥ ५२॥ जन्मप्रत्यरितारयोरिति ॥ कर्तुर्जन्मप्रत्यरितारयोः जन्मतारा उत्पत्तिनक्षत्रं दशमैकोनविंशं चेति । प्रत्यरितारा जन्मभात्पंचमचतुर्दशत्रयोविंशं नक्षत्रम् । तथा कर्तुर्मृतिसुखांत्येऽब्जे अष्टमचतुर्थद्वादशस्थे चंद्रे सति दाहो न सन्न प्रशस्तः । अथ मध्यनक्षत्राणि मैत्रमनुराधा भगः पूर्वाफाल्गुनी अदितिः पुनर्वसुः ध्रुवाणि रोहिण्युत्तरात्रयं विशाखा द्वयंघ्रिभं मृगचित्राधनिष्टाः ज्ञे बुधेऽपि शवदाहो मध्यमः । अथोत्तमानि अर्केज्याभ्यां सहितो विधुः अर्कगुरुचंद्रवारे तथा श्रवणहस्तस्वात्यश्विनीपुष्येषु पंच नक्षत्रेषु शवप्रतिकृतेर्दाहः श्रेष्ठः। इदमखिलमाशौचात्परतोऽनंतरम् । मध्ये तु यथासंभवं किंचिगुणांगीकारेण विचार्यम् ॥ ९२ ॥ 1 अथ मूल नक्षत्र जातस्य विशेषमुपजातिकयाह अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठांत्यमूलादिभवं हि नारदः ॥ वसिष्ठ एकद्विघटीमितं जगौ वृहस्पतिस्त्वेकघटीप्रमाणकम् ॥ ५३ ॥ अभुक्तमूलमिति ॥ नारदः । अभुक्तमूललक्षणं ज्येष्ठांत्यमूलादिभवं घटीचतुष्टयं जगौ । ज्येष्ठांत्यघटीचतुष्टयं मूलादिघटीचतुष्टयं चेत्यर्थः । नारदः । यो ज्येष्ठामूलयोरंतरालप्रहरजः शिशुः । अभुक्तमूलजः सार्पमघा नक्षत्रयोरपि ॥ अयमेव मुख्यः पक्षः कश्यपादिबहुमुनिसंवादात् । कश्यपः । ज्येष्ठांत्यमूलयोरंतरालयामोद्भवः शिशुः । अभुक्तमूलजः सोऽथ त्वाश्लेषापित्र्ययोरपि ॥ वसिष्ठोऽपि । भुजंगपौरंदरपौष्णभानां तदग्रमानां च यदंतरा - लम् । अभुक्तमूलं प्रहरप्रमाणं त्यजेत्सुतं तत्र भवां सुतां चेति । वसिष्ठ एकद्विघटीमितं जगौ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy