SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणौ एभ्यो भिन्ननक्षत्रेषु शुक्रगुरुरविवारेषु सत्तनौ शुभयुतदृष्टे लग्ने नौकाघटनं नौकानिर्माणं शु. भम् । नौकाचालननौकागमनमुहूर्तों दीपिकायाम् । शुभाहे विष्णुयुग्मेंदुभगमैत्राश्विपाणिषु । चालनं घटनस्थानान्नावः शुभतिथींदुषु ॥ अश्विकरेज्यसुधानिधिपूर्वा मित्रधनाच्युतभे शुभलग्ने । तारकयोगतिथींदुविशुद्धौ नौगमनं शुभदं शुभवारे ॥ ३८ ॥ अथ वीरसाधनाभिचारयोर्मुहूर्तमनुष्टुभाह मूलार्द्राभरणीपित्र्यमृगे सौम्ये घटे तनौ ॥ सुखे शुक्रेऽष्टमे शुद्ध सिद्धिीराभिचारयोः ॥ ३९॥ मृलेति ॥ मूलादिनक्षत्रपंचके तथा घटे तनौ कुंभलग्ने सौम्ये बुधे सति तथा शुभे सुखे चतुथै अष्टमे शुद्धे ग्रहरहिते तादृशे लग्ने वीरस्य धनस्य अभिचारस्य कर्मणः सिद्धिनिष्पत्तिः ॥ ३९॥ अथ रोगनिर्मुक्तस्नानं वसंततिलकयाह व्यंत्यादितिधुवमघानिलसार्पधिष्ण्ये रिक्ते तिथौ चरतनौ विकवींदुवारे ॥ स्नानं रुजा विरहितस्य जनस्य शस्तं हीने विधौ खलखगैर्भवकेंद्रकोणे ॥ ४० ॥ व्यंत्येति ॥ विगतान्यंत्यादीनि रेवत्यादीनि नव धिष्ण्यानि येभ्यस्तेष्वष्टादशशिटनक्षत्रेषु तथा रिक्तासंज्ञासु तिथिषु चरलग्ने तथा शुक्रचंद्रवर्जितवारे तथा विधौ चंद्रे हीने निषिद्धस्थानस्थे । निषिद्धस्थानानि गोचरप्रकरणे । तथा पापग्रहैर्भवे एकादशे केंद्रे प्रथमचतुर्थसप्तमदशमे १,४,७,१० कोणे नवपंचमे स्थाने स्थितैः सद्भिः एवंविधे लग्ने रुजा विरहितस्य रोगनिर्मुक्तस्य जनस्य स्नानं आरोग्यस्नानं शस्तं शुभम् । नारदः । स्थिरेज्यादितिसापीत्यपितृवारुणभेषु च । न कुर्याद्रोगमुक्तस्तु स्नानं वारेऽब्जशुक्रयोरिति ॥ ४० ॥ अथ शिल्पविद्यामनुष्टुभाह मृदुधुवक्षिप्रचरे जे गुरौ वा खलग्नगे॥ विधौ ज्ञजीववर्गस्थे शिल्पविद्या प्रशस्यते ॥ ४१ ।। मृदुधुवेति ॥ मृदुध्रुवादिनक्षत्रे ज्ञे बुधे दशमलग्ने वा सति अथवा गुरौ दशमे लग्ने वा सति । तथा विधौ चंद्रे बुधगुरुषर्गस्थे च सति शिल्पविद्या नानावर्णादिनिर्मितमादिकं तद्विद्यायाः प्रारंभः प्रशस्यते ॥ ११ ॥ अथ संधामनुष्टुभाह सुरेज्यमित्रभाग्येषु चाष्टम्यां तैतिले हरौ॥ Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy