SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणी स्वात्यादित्ये इति || आदिशब्दाधुनक्षत्रोक्तमपि ॥ २ ॥ अथोग्रनक्षत्राणि चानुष्टुभाह २८ पूर्वात्रयं याम्यमधे उग्रं क्रूरं कुजस्तथा ॥ तस्मिन् घाताग्निशाव्यानि विषशस्त्रादि सिध्यति ॥ ४ ॥ पूर्वात्रयमिति ॥ आदिशब्दाद्दारुणनक्षत्रोक्तमपि ॥ ४ ॥ अथ मिश्राण्यनुष्टुभाह विशाखाय सौम्यो मिश्रं साधारणं स्मृतम् ॥ तत्राग्निकार्य मिश्रं च वृषोत्सर्गादि सिध्यति ॥ ५ ॥ विशाखेति ॥ आदिग्रहणादु भोक्तमपि ॥ ९ ॥ अथ लघुनक्षत्राण्यनुष्टुभाह हस्ताश्विपुष्याभिजितः क्षिप्रं लघु गुरुस्तथा ॥ तस्मिन्पण्यरतिज्ञानभूषा शिल्पकलादिकम् ॥ ६ ॥ हस्तेति ॥ शिल्पं वर्धकिकृत्यादि कला नृत्यादिकाश्चतुःषष्टिः आदिशब्दाच्चरभोतमपि ॥ ६ ॥ अथ मृदुनक्षत्राण्यनुष्टुभाह मृगांत्यचित्रामित्रर्क्ष मृदुमैत्रं भृगुस्तथा ॥ तत्र गीतांबरक्रीडा मित्रकीय विभूषणम् ॥ ७ ॥ मृगांत्येति ॥ ७ ॥ अथ तीक्ष्णमान्यनुष्टुभाह मूलेंद्राद्रीहिर्भ सौरिस्तीक्ष्णं दारुणसंज्ञकम् ॥ तत्राभिचारघातोग्रभेदाः पशुमादिकम् ॥ ८ ॥ सूलेति ॥ अभिचारः कर्मणां भयंकरकृत्यं मारणादि । पशुदमः पशुशिक्षा आदिशदाद्वंधनादिकं स्थिरं च ॥ ८ ॥ अथाधोमुखोर्ध्वमुखतिर्यङ्मुखनक्षत्राणीद्रवजयाह मूलाहिभिश्रोग्रमधोमुखं भवेद्ध्वस्य मार्द्रेज्यहरित्रयं ध्रुवम् ॥ तिर्यखं मैत्रकरानिलादितिज्येष्ठाश्विभानीदृशकृत्यमेषु सत् ॥९॥ मूलाहीति ॥ मूलं अहिराश्लेषा मिश्रं कृत्तिकाविशाखे उग्रं पूर्वात्रयमत्राभरण्यः Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy