SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २६ मुहूर्तचिंतामणी शेषं ४ रविवारे क्रमाद्गणनया चतुर्थो बुधस्तस्य होरा इत्यादि । विवाहवृंदावने । उदयमारभ्य होरा उक्ताः । यथा । तत्कालार्कन्यूनलग्नांशपिंडो भक्तः पंचक्षोणिभिर्भुक्तहोराः । भास्वच्छुक्रज्ञेदुसौरेज्यभौमाः संख्यायेरन्वारतस्ते तदीशा इति । अनयोर्विषयविभागो वसिष्ठसंहितायाम् । वारप्रवृत्तिविज्ञानं क्षणवारार्थमेव हि । अखिलेप्वन्यकार्येषु दिनादिरुदयाद्भवेत् । क्षणवारः कालहोरारूपस्तदर्थं वारप्रवृत्तिः । अन्यकार्येषु दिक्शूलादिषु तिथिवारप्रयुक्तेषु नक्षत्रवारप्रयुक्तेषु च योगेषु सुयोगेषु च सूर्योदयादेव वारो ग्राह्यः ।। १५ ।। अथ कालहोराप्रयोजनं शालिन्याह वारे प्रोक्तं कालहोरासु तस्य धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य ॥ कुर्याद्दिशूलादि चित्थं क्षणेषु नैवोल्लंघ्यः पारिघश्वापि दंडः ॥ ५६ ॥ वारे प्रोक्तमिति । यत्कर्म यस्मिन्वारे प्रोक्तं तद्दिनस्य सदोषत्वादत्यावश्यककृत्ये तस्य कालहोरायां कर्तव्यम् । नारदः । यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते । ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा || अत्र केचित् । यस्य वारे कर्म प्रोक्तं तस्य बलिनो नवांशे सूर्यचंद्रो वा चेत्तिष्ठति तदा तत्कर्म कार्यमित्याहुः । उक्तं च । यस्य ग्रहदिने कर्म यत्किंचिदभिधीयते । यस्यांशसंस्थिते चंद्रे सूर्ये वा तद्विधीयत इति । अथ धिष्ण्ये नक्षत्रे यत्कर्म वस्त्रपरिधानादिकमुक्तं तदत्यावश्यकत्वे अस्य धिष्ण्यस्य स्वामिति - थ्यंशके स्वामिनो मुहूर्ते कुर्यात् । नारदः । यस्मिन्नृक्षे तु यत्कर्म निखिलं कथितं च यत् । तद्दैवत्ये तन्मुहूर्ते कार्य यात्रादिकं तथेति । मुहूर्तस्वामिनो विवाहप्रकरणे वक्ष्यते । क्षणेषु मुहूर्तेषु दिक्शूलाद्यं दिक्शूलं वारशूल नक्षत्रशूलं चित्यं विचारणीयम् । एवं पारिघो दंड: क्षणेषु मुहूर्तेषु नैवोछंध्यः । यत्कर्म कथितमृक्षे यस्मिंस्तत्कर्म तत्क्षणे कार्यम् । दिक्शूलादिकमखिलं पारिषदंडादि विज्ञेयमिति वसिष्ठोक्तेः ॥ ५६ ॥ अथ मन्वादीन्युगादींचं शार्दूलविक्रीडितेनाह मन्वाद्यास्त्रितिथी मधौ तिथिरवी ऊर्जे शुचौ दितिथी ज्येष्ठेऽत्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्ये शिवा || भाद्रेऽग्निश्च सिते त्वमाष्टनभसः कृष्णे युगाद्याः सिते गोनी बाहुलरायोर्मदनदर्शी भाद्रमाघासिते ॥ ५७ ॥ इति मुहूर्तचिंतामणौ प्रथमं शुभाशुभप्रकरणं समाप्तम् || १ || मन्वाद्या इति ॥ सिते शुक्लपक्षे एता मन्वादयः । मधौ चैत्रे त्रितिथी तृतीया - पौर्णिमे ऊर्जे कार्तिके तिथिरवी पूर्णिमाद्वादश्यौ शुचौ आषाढे दितिथी दशमीपूर्णिमे ज्येष्ठे अंत्ये फाल्गुने च तिथि: उभयत्र पूर्णिमैव इषे आश्विने नवमी तपसि माघे Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy