SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणी सिंहराशिगत गुरुनिषेधवाक्यानां प्रतिप्रसववाक्यानां च निर्गलितार्थमनुष्टुव्द्वयेनाहमघादिपंचपादेषु गुरुः सर्वत्र निंदितः ॥ गंगागोदांतरं हित्वा शेषांघिषु न दोषकृत् ॥ ५० ॥ मेषेsh सन्तोद्वाहौ गंगागोदांतरेऽपि च ॥ सर्वः सिंहगुरुर्वयैः कलिंगे गौडगुर्जरे ॥ ५१ ॥ मघादिपंचपादेष्वित्यादि । मेषेऽर्क इत्यादि च ॥ १० ॥ ११ ॥ अथ मकरस्थगुरोः प्रकारद्वयेन परिहार शालिन्याह २४ रेवापूर्व गंडकीपश्चिमे च शोणस्योदग्दक्षिणे नीच ईज्यः ॥ वय नायं कौंकणे मागधे च गौडे सिंधौ वर्जनीयः शुभेषु ॥ ५२ ॥ रेवापूर्व इति ॥ रेवाया नर्मदायाः पूर्वदेशे गंडकीनद्याः पश्चिमे विभागे शोणनदस्योत्तरदक्षिणभागे नीच ईज्यो मकरस्थो गुरुर्न वर्ज्यः । लल: । नर्मदापूर्वभागे तु शोणस्योत्तरदक्षिणे । गंडक्याः पश्चिमे भागे मकरस्थो न दोषभाक् ॥ अन्यदेशेषु निषिद्धस्तत्र निषिद्धदेशानाह । अयमिति । अयं मकरस्थगुरुः कौंकणदशे गौडदशे सिंधुदेशे च शुभकृत्येषु वय निषिद्धः । उक्तं च । मागधे गौडदेशे च सिंधुदेशे च कौंकणे । व्रतं चूडां विवाहं च वर्जयेन्मकरे गुरौ || एभ्योऽन्यदेशेषु मंगलमर्थान्मध्यमम् ॥ १२ ॥ अथ लुप्तसंवत्सरदोषं सापवादं वंशस्थवृत्तेनाह गोजांत्य कुंभेतरभेऽतिचारगो नो पूर्वराशि गुरुरेतिवक्रितः ॥ तदा विलुप्ताब्द इहातिनिंदितः शुभेषु रेवासुरनिम्नगांतरे ॥ ५३ ॥ गोजांत्येति ॥ गौर्वृषः अजो मेषः अंत्यो मीनः कुंभः प्रसिद्धः एभ्य इतरभे अन्यराशौ मिथुनादौ अतिचारगो गुरुर्महातिचारेण समागतः सन् पश्चात्कियद्भिर्दिनैर्वक्रितो यदा पूर्वराशिं नो एति भुक्तराशि नागच्छति तदा विलुप्ताब्दो लुप्तसंवत्सर उच्यते । सं लुप्तसंवत्सरः शुभकृत्ये अतिनिंदितो निषिद्धः । उक्तं च । अतिचारगतो जीवस्तं राशि नैति चेत्पुनः । लुप्तसंवत्सरो ज्ञेयो गर्हितः सर्वकर्मसु ॥ यदा तु गोजांत्यकुंभेषु पूर्वराशेः सकाशान्महातिचारेणयाति पूर्वराशि च नैति तदा न लुप्तसंवत्सरदोषः । गुरुः । मेषे षे झपे कुंभे यद्यतीचारगो गुरुः । न तत्र काललोपः स्यादित्याह भगवान्यमः || दशमासभोगानंतरमतिचारेऽपि लुप्ताब्ददोषो नास्ति । च्यवनः । मासान्दशैकादश वा प्रयुज्य राशेर्यदा राशिमुपैति जीवः । भुंक्ते न पूर्वं च पुनस्तथापि न लुप्तसंवत्सरमाहुरार्याः ॥ पूर्व राशिभेदेन परिहारमुक्त्वदानीं देशभेदेन परिहारमाह । लुप्तसंवत्सरो रेवा नर्मदा सुरनिम्नगा । भागीरथी Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy