SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ शुभाशुभप्रकरणम् । १७ द्वादश्यां दश चतुर्दश्यां पंच घटिकास्त्याज्या इत्यर्थः । परा उर्वरिताः शुभा ज्ञेयाः । वसिष्ठः। चतुर्दशी चतुर्थी च अष्टमी नवमी तथा । षष्ठी च द्वादशी चैव पक्षच्छिद्राह्वया इमाः । क्रमादेतासु तिथिषु वर्जनीयाश्च नाडिकाः । भूताष्टमनुतत्त्वांकदश शेषास्तु शोभनाः । दोषनाडीषु यत्कर्म कृतं सर्वं विनश्यतीत्यादि । कश्यपेन सर्वसाधारण्येन दशैव वर्जिताः || ३६ || अथ कुलिककालवेलायमघंटकंटक दोषाननुष्टुभाह कुलिकः कालवेला च यमघंटश्च कंटकः ॥ वाराद्विघ्ने क्रमान्मंदे बुधे जीवे कुजे क्षणः ॥ ३७ ॥ 1 1 कुलिक इति ॥ वर्तमानवान्मंदे शनैश्वरे गणिते सति योंऽको भवति तस्मिन् द्विगुणेयों कस्तत्संख्यालक्षणो मुहूर्तः कुलिको भवति । एवं बुधे जीवे भौमे वर्तमानवाराद्गणिते योंऽको भवति स स द्विघ्नः क्रमात् कालवेलायमघंटकंटकसंज्ञा दुष्टमुहूर्ताः स्युः । यथा रवितः शनिः सप्तसंख्याकस्तस्मिन् द्विगुणे चतुर्दश जाताः । तेन रवौ चतुर्दशो मुहूर्त: कुलिकः । एवं बुधे संख्या चत्वारः तद्विगुणोऽष्टमो मुहूर्तः कालवेला जीवे पंच द्विघ्ने दशमो यमघंटः । भौमे तृतीये द्विघ्ने षष्ठो मुहूर्तः कंटकसंज्ञ इत्यर्थः । एवं सोमवारादावपि । अथ शुभकृत्यावश्यकत्वे सति देशभेदेन कुलिकादिदोषपरिहारमाह । गर्गः । विध्यस्योत्तरकूले तु यावदतुहिनाचलम् । यमघंटकदोषोऽस्ति नान्यदेशेषु विद्यते । मत्स्यांगमागधांध्रेषु यमघंटस्तु दोषकृत् । काश्मीरे कुलिकं दुष्टमर्धयामस्तु सर्वत इति । केचिन्मते । स्यात्कालवेला रवितः शराक्षि तर्कानलांगांबुधयो १, २, ६, ३, ६, ४ गजेंदू ॥ ८, १ दिने निशायामृतुवेदनेत्रनगेषु रामा ६,४,२,७,९,३ विधुदंतिनौ १, ८ च ॥ गजेंद् इत्यर्धप्रहरद्वयं शनौ । यात्रायां मरणं काले वैधव्यं पाणिपीडने । व्रते ब्रह्मवधः प्रोक्तः शुभकर्म ततस्त्यजेत् । गौडाः । सूर्ये वेदशरौ ४,१ चंद्रे हयपक्षौ ७,२ कुजेऽक्षिभूः २,१ ॥ ज्ञे बाणानी १,३ गुरौ दंतिहयौ ८, ७ शुक्रे त्रिवेदकौ ३,४ ॥ मंदे तर्कगजौ ६, ८ ज्ञेयौ यामाधवशुभौ सदेति ॥ ३७ ॥ अथ सूर्यादिवारेषु शिष्याणां सद्य एव दोषज्ञानार्थं दुर्मुहूर्तादिनामकान् मुहूर्तान शार्दूलविक्रीडितवसंततिलकाभ्यामाह 1 सूर्ये षट्स्वरनागदिझनुमिताश्चंद्रेऽधिषट्कुंजरांकाक विश्वपुरंदराः क्षितिसुते वध्यग्नितर्का दिशः ॥ सौम्ये safoधगजांकदिमनुमिता जीवे द्विषद्भास्कराः शक्राख्यास्तिथयः कलाश्च भृगुजे वेदेषु तर्कग्रहाः ॥ ३८ ॥ दिग्भास्करा मनुमिताश्च शनौ शशिद्विनागा दिशो भ 3 Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy