SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणी तिभुजंगदैवतमघापुष्योत्तरा रोहिणी । सौरावर्यममूलहस्तवरुणाषाढाद्वयं रेवती चित्राविष्णुमघाश्च सर्वसमये त्याज्या अयोगा बुधैरिति ॥ २८ ॥ २९ ॥ अथावश्यकवर्ज्यत्वेन झटित्युपस्थित्यर्थमुत्पातमृत्युकाणसिद्धियोगान् शालिन्याहदीशान्तोयाद्वासवात्पौष्णभाच्च ब्राह्मात्पुष्यादर्यमक्षचतुभैः ॥ स्यादुत्पातो मृत्युकाणौ च सिद्धिर्वारेऽर्काचे तत्फलं नामतुल्यम् ॥ २० ॥ दीशादिति । विशाखादिचतुर्नक्षत्रैरुत्पात मृत्युकाणसिद्धियोगा रविवारे स्युः । यथा रवौ विशाखा उत्पातः अनुराधा मृत्युः ज्येष्ठा काणः मूलं सिद्धिरिति । एवं सोमवारादौ पूर्वाषाढादितो ज्ञेयम् । तत्फलं नामसदृशम् । उत्पातमृत्युकाणा निषिद्धाः सिद्धिः शुभ इत्यर्थः । नारदः । विशाखादिचतुर्वर्गमर्कवारादिषु क्रमात् । उत्पातमृत्युकाणाख्ययोगाश्वामृतसंयुता इति ॥ ३० ॥ अथ देशविशेषेण कुयोगानां परिहारमनुष्टुभाह १४ कुयोगास्तिथिवारोत्थास्तिथिभोत्था भवारजाः ॥ हूणवंगवशेष्वेव वर्ज्या स्त्रितयजास्तथा ॥ ३१ ॥ कुयोगा इति ॥ तिथिवारोत्थाः कुयोगाः क्रकचादयः तिथिभोत्था अनुराधा द्वितीयायामित्यादयः भवारजा याम्यं त्वाष्ट्रं वैश्वदेवमित्यादयः तथा त्रितयजास्तिथिवारनक्षत्रजाः वर्जयेत्सर्वकार्येषु हस्तार्के पंचमीतिथावित्येवमादयस्ते सर्वे हूणवंगखशदेशेष्वेव वयः अन्यदेशे न निषिद्धा इत्यर्थः । नारदः । तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः । हूणवं खशेभ्योऽन्यदेशेष्वेते शुभप्रदा इति ॥ ३१ ॥ अथ समस्त शुभकृत्ये वर्ज्यान् शार्दूलविक्रीडितेनाहसर्वस्मन्विधुपापयुक्त नुलवावर्षे निशाहोर्घटी त्र्यंशं वै कुनवांशकं ग्रहणतः पूर्व दिनानां त्रयम् ॥ उत्पातग्रहतोऽद्रग्रहांश्च शुभदोत्पातैश्च दृष्टं दिनं षण्मासं ग्रहभिन्नभं त्यज शुभे यौद्धं तथोत्पातम् ॥ ३२ ॥ सर्वस्मिन्निति । सर्वस्मिन्शुभे कार्ये एतानि वै निश्चयेन त्यज परिहरेत्यर्थः । विधुना पापेन वा पापैः क्षीर्णेद्वर्कमहीसुतार्क तनयैर्वा युजौ युक्तौ तनुलवौ लग्ननवांशौ त्याज्यौ । पूर्णः क्षीणोऽपि वा चंद्रो लग्ने सर्वत्र गर्हित इति कश्यपोक्तेः । पापेंद् लग्नगौ वांशगतौ वज्य शुभे सदेति च । निशाह्नोर रात्र्यर्धे दिनार्थे च घटीत्र्यंशं विंशतिपलानि दश पूर्वं दश पश्चाच्च परिहर । उक्तं च । मूर्तः कालो निवसति महानिशायां च दिनदले यस्मात् । दश पूर्वं दश परतस्तस्माद्वर्ज्यानि च पलानि । कुनवांशकं पापग्रहनवांशकं परिहर । अथ ग्रहणतः पूर्वं दिनानां त्रयं परिहर । उत्पातग्रहतः उत्पाता दिव्य भौमांतरिक्षास्ते यस्मिन् दिने भवति ततो Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy