SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ शुभाशुभप्रकरणम् । ११ चित्रास्वात्य शून्य । पाशी वरुणस्तद्वं शततारा अजपात्पूर्वाभाद्रपदा । वसिष्ठः । अश्विनी रोहिणी चैत्रे शून्यभे परिकीर्तिते । चित्रा स्वाती च वैशाखे ज्येष्ठे विश्वेज्यतारके ॥ भगवासवमाषाढे श्रावणे हरिविश्वभे । नभस्ये वारुणात्यर्क्षमजपादाश्वयुज्यपि ॥ कार्तिके पितृक्षे सौम्ये चित्राद्विदैवते । पौषे दस्तकरार्द्राः स्युर्माघे मूलं च विष्णुभम् ॥ तपस्ये शक्रभरणी शून्यभान्याहुरग्रजाः । एषु यत्तु कृतं कर्म धनैः सह विनश्यतीति ॥ १४ ॥ १५ ॥ अथ चैत्रादिमासेषु शून्यराशीननुष्टुभाह art झष गोमिथुनं मेषकन्यालितौलिनः ॥ धनुः कर्को मृगः सिंहचैत्रादौ शून्यराशयः ॥ १६ ॥ घट इति ॥ वसिष्ठः । घटमत्स्यतृषा युग्ममेषकन्याः सवृश्चिकाः । तुला चापकुलीराख्या मृगसिंहाश्च राशयः । चैत्रादौ मासशून्याख्या वंशवित्तविनाशना इति ॥ १६ ॥ अथ विषमतिथिषु दग्धलग्नानींद्रवज्जयाह पक्षादितस्त्वजतिथौ घणौ मृगेंद्रनो मिथुनांगने च ॥ चादुभे कर्करी यांत्या गोंडत्यौ च नेष्टे तिथिशून्यलने ।। १७ । पक्षादित इति ॥ शुक्लपक्षकृष्णपक्षादितः प्रतिपदमारभ्य ओजतिथौ विषमतिथौ प्रतिपत्तिथौ घणौ तुलाकरौ तृतीयायां मृगेंद्रनक्रौ सिंहमकरौ पंचम्यां मिथुनकन्ये सप्तम्यां चार्षेदुभे धनुःकर्कौ नवम्यां कर्कहरी कर्कसिंहौ एकादश्यां हयांत्यौ धनुर्मीनौ त्रयोदश्यां गोंऽत्यौ नृपमीनौ एते तिथिशून्यलग्ने तस्यां तस्यां तिथौ नेष्टे निषिद्धे । वसिष्ठः । मृगसिंहौ तृतीयायां प्रथमायां तुलामृगौ । पंचम्यां बुधराशी द्वौ सप्तम्यां चापचंद्रुभे || नवम्यां सिंहकीटाख्यावेकादश्यां गुरोर्गृहे । वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी ग्रहाः । दग्वसद्मनि यत्कर्म कृतं सर्वं प्रणश्यति ॥ १७ ॥ अथैषां दुष्टयोगानां शुभकृत्यावश्यकत्वे सति परिहारमाह तिथयो मासशून्याश्च शून्यलग्नानि यान्यपि ॥ मध्यदेशे विवर्ज्यानि न दृष्याणीतरेषु तु ॥ १८ ॥ पंrधकाणलग्नानि मासशून्याश्च राशयः ॥ गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥ १९ ॥ तिथयो मासशून्या इति द्वाभ्याम् || पंग्बंधकाणलग्नानि विवाहप्रकरणे वक्ष्यंते । नारदः । चंद्रे चैव त्रिकोणे च शुभे ह्युपचयेऽपि वा । एकोऽपि बलवांश्चापि शून्यतिथ्युडुनाशक इति ॥ १८ ॥ १९ ॥ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy