________________
शुभाशुभप्रकरणम् ।
असिते कृष्णपक्षे शुभमध्याधमफलदाः स्युः । ता एव नंदादितिथयः शुक्रबुधमंगलशनिगुरुवारेषु सिद्धिकराः स्युः । यथा नंदाशुक्रवारे एवं भद्रा बुधवारे जया भौमे रिक्ता शनौ पूर्णा गुराविति ॥ ४ ॥
अथ सूर्यादिवारेषु यथासंख्यं निषिद्धतिथीर्दग्धनक्षत्राणि च शालिन्याह
नंदा भद्रा नंदिकाख्या जया च रिक्ता भद्रा पूर्ण संज्ञाऽधमाकीत् ॥ याम्यं त्वाष्ट्रं वैश्वदेवं धनिष्ठार्यम्णं ज्येष्ठांत्यं रवेर्दुग्धभं स्यात् ॥ ५ ॥
1
नंदेति ॥ अदिति ल्यलोपे पंचमी । अर्कमारभ्य नंदादिका तिथिरधमा स्यात् यथा सूर्यवारे नंदाधमा एवं सोमे भद्रा भौमे नंदा बुधे जया गुरौ रिक्ता शुक्रे भद्रा रानौ पूर्णेति । इदमाधुनिकानां प्राच्यानां मतम् । वस्तुतस्तु ते शुभा अमृतयोगाः । तथा च वसिष्ठः । नंदा भौमार्कयोर्भद्रा शुक्रेंद्रो जया बुधे । शुभयोगा गुरौ रिक्ता पूर्णा मंदेऽमृताह्वया ॥ गुरुरपि । आदित्यभौमयोर्नदा भद्रा शुक्रशशांकयोः । जया ज्ञे च गुरौ रिक्ता पूर्णार्थौ चामृता शुभेति । नारदवाक्ये शनौ पूर्णा च मृत्युदेति कल्पितः पाठः । वसिष्ठादिवचनविसंवादात् । बहुषु पुस्तकेषु शनौ पूर्णाऽमृताशुभेति पाठाच्च । पूर्णसंज्ञाऽमृतार्कादिति पाठः साधुः । तथा रविवारादिषु याम्यं भरणी तदादीनि नक्षत्राणि यथाक्रमेण दग्वनक्षत्राणि स्युः । यथा रविवारे भरणी दग्धा सोमे चित्रा भौमे उत्तराषाढा बुधे धनिष्ठा गुरावुत्तराफाल्गुनी शुक्रे ज्येष्ठा शनौ रेवती । नारदः । आदित्यभौमयोनँदा भद्रा शुक्रशशांकयोः । जया सौम्ये गुरौ रिक्ता शनौ पूर्णाऽमृताशुभेति । नारदः । यमक्षमर्कवारेऽब्जे चित्रा श्रविष्टार्यम्ण गुरौ ज्येष्ठा भृगोर्दिने । रेवती शनिवारे तु दग्धयोगा भवत्यमी । एतान्येव नक्षत्राणि रव्यादीनां जन्मभानीत्युक्तानि तान्यपि निषिद्धान्येव । लल्लः । याम्यं त्वाष्ट्रोत्तराषाढे घनिष्ठोत्तरफल्गुनी । ज्येष्ठा च रेवती चैव जन्मक्षै भानुतः क्रमात् । क्रमात्सप्तेंद्रदिक्सूर्यनवाष्टौ पौर्णमास्यमा ७, १४,१०,१२,९,८,१९,३० । सूर्यादिजन्मतिथयः संत्याज्याः शुभकर्मणि । जन्मर्क्षे जन्मतिथिषु शुभकर्म विवर्जयेत् । बलाञ्चेत्कुरुते कर्म न तत्फलमवाप्नुयादिति ॥ ५ ॥ अथ क्रकचादिनिंद्ययोगाननुष्टुभाह
विश्वम् ।
षष्ठयादितिथयो मंदाद्विलोमं प्रतिपद्बुधे ॥
सप्तम्यर्केऽधमाः षष्ठयाद्यामाश्च रदधावने ॥ ६ ॥
षष्ठयादीति ॥ क्रमेण षष्ठ्यादितिथयः मंदाच्छनैश्चराद्विलोमं विपरीतगणनयाऽधमाः स्युः । यथा शनौ षष्ठी अधमा शुक्रे सप्तमी गुरावष्टमी बुधे नवमी भौमे दशमी सोमे एकादशी रखौ द्वादशी एते योगाः क्रकचाख्या ज्ञेयाः । तथा प्रतिपदुधवासरे सप्तमी रवि
Aho! Shrutgyanam