SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ वास्तुप्रकरणम् । अथ दिक्परत्वेन उपकरणगृहाणि वसंततिलकयाह स्नानस्य पाकशयनास्त्रभुजेश्च धान्यभांडारदैवतगृहाणि च पूर्वतः स्युः॥ तन्मध्यतस्तु मथनाज्यपुरीषविद्या भ्यासाख्यरोदनरतौषधसर्वधाम ॥२१॥ स्नानस्येति ॥ पूर्वतः पूर्वाद्यष्टदिक्षु स्नानगृहादीनि गृहाणि स्युः । यथा । पूर्वस्यां स्नानगृहम् आग्नेय्यां पाकगृहम् दक्षिणस्यां शयनगृहम् नैर्ऋत्यां शस्त्रगृहम् पश्चिमायां भोजनगृहम् वायव्यां धान्यसंग्रहगृहम् उत्तरस्यां भांडारं कोशगृहम् ऐशान्यां दैवतगृहम् । वसिष्ठः । ऐंद्रयां दिशि स्नानगृहमाग्नेय्यां पचनालयम् । याम्यायां शयनं वेश्म नैऋत्यां शस्त्रमंदिरम् ॥ वारुण्यां भोजनगृहं वायव्यां धान्यमंदिरम् । उदीच्यां हाटकं सद्म ऐशान्यां देवमंदिरमिति । नारदस्तु विशेषमाह । भांडागारं तूत्तरस्यां वायव्यां पशुमंदिरमिति । पूर्वाद्यष्टदिक्षु तन्मध्यतः तयोदिग्विदिशोर्मध्येऽष्टसंख्याके मथनाद्यष्टौ गृहाणि स्युः। यथा पूर्वाग्नेययोर्मध्ये मथनस्य दध्यालोडनस्य गृहं स्यात् आग्नेयीदक्षिणयोर्मध्ये आज्यस्य घृतसंग्रहस्य दक्षिणनैऋत्योर्मध्ये पुरीषस्य विष्ठात्यागस्य गृहम् नैर्ऋतीपश्चिमयोर्मध्ये विद्याभ्यासस्य पश्चिमवायव्ययोर्मध्ये रोदनस्य गृहम् वायव्योत्तरयोर्मध्ये रतस्य संभोगस्य गृहम् उत्तरैशान्ययोर्मध्ये औषधस्य गृहम् ऐशानीप्राच्योर्मध्ये उक्तव्यतिरिक्तसर्ववस्तूनां धाम गृहं कार्यं स्यादित्यर्थः । वसिष्ठः । इंद्राम्योर्मथनं मध्ये याम्याग्योर्घतमंदिरम् । यमराक्षसयोमध्ये पुरीपत्यागमंदिरम् ॥ राक्षसांबुपयोर्मध्ये विद्याभ्यासस्य मंदिरम् । तोयेशानिलयोर्मध्ये रोदनं मंदिरं ततः ॥ कामोपभोगसदनं वायुकौबेरमध्यमे । कौबेरैशानयोर्मध्ये चिकित्सामंदिरं सदा ॥ गृहं हरीशयोर्मध्ये सर्ववस्तुसुसंग्रहम् । सदनं कारयेदेवं क्रमादुक्तानि षोडशेति ॥ २१॥ अथ विशेषमुपजातिकयाहजीवार्कविच्छुक्रशनैश्चरेषु लग्नारिजामित्रसुखत्रिगेषु ॥ स्थितिः शतं स्याच्छरदां सिताप्रेज्ये तनुभ्यंगसुते शते दे॥२२॥ जीवार्केति ॥ अत्र योगद्वये ग्रहस्थानयोर्यथासंख्यं संबंधः । यथा जीवो लग्ने अकोऽरौ षष्ठे विद्रुधो जामित्रे सप्तमे शुक्रश्चतुर्थे शनिस्तृतीये एवंविधे लग्ने प्रारब्धस्य गृहस्य स्थितिरब्दशतं वर्षशतं स्यात् । अयमेको योगः । सितेति शुक्रो लग्ने अर्कस्तृतीये आरः षष्ठे ईज्यः पंचमे एवंविधे प्रारब्धस्य गृहस्य स्थितिढे शते वर्षशतद्वयं स्यात् ॥२२॥ Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy