________________
यात्राप्रकरणम् । तडः । उपचयकरग्रहदिने शुद्धिः क्रूरेऽपि पापिनां भवति । सौम्येऽप्यनुपचयस्थे न भवति यात्रा शुभा यातुरिति । तस्मान्नार्थो वारोक्त्येति तेऽत्र नोक्ताः ॥९॥ अथ वारशूलं नक्षत्रशूलं च पृथ्वीच्छंदसाह
न पूर्व दिशि शक्रभे न विधुसौरिवारे तथा न चाजपद: गुरौ यमदिशीनदैत्येज्ययोः॥ न पाशिदिशि धातृभे कुजबुधेर्यमः तथा
न सौम्यककुभि व्रजेत्स्वजयजीवितार्थी बुधः ॥ १०॥ न पूर्वदिशीति ॥ शक्रभे ज्येष्ठायां पूर्वदिशि न व्रजेत् । तथा विधुसौरिवारे सोमशनिवारेऽपि पूर्वदिशि न व्रजेत् । अजपदभे पूर्वाभाद्रपदायां तथा गुरुवारेऽपि यमदिशि न व्रजेत् । रविशुक्रयोवीरे तथा धातृभे रोहिण्यां पाशिदिशि पाशी वरुणस्तदिशि पश्चिमदिशि न व्रजेत् । कुजबुधवारे तथार्यमः उत्तराफाल्गुन्यां सौम्यककुभि उत्तरदिशि न व्रजेत् । कः स्वजयजीवितार्थी बुधः । स्वं धनं जयः क्षत्रुपराजयपूर्वकः स्वोत्कर्षः जीवितमायुष्यं एतानि अर्थयतेऽसौ न व्रजेत् । वारशूलपरिहारमाह गुरुः। सूर्यवारे घृतं प्राश्य सोमवारे पयस्तथा । गुडमंगारके वारे बुधवारे तिलानपि ॥ गुरुवारे दधि प्राश्य शुक्रवारे यवानपि । माषान् भुक्त्वा शनेवारे गच्छन् शूले न दोषभाक् ॥ तांबूलं चंदनं मृच्च पुष्पं दधि घृतं तिलाः । वारशूलहराण्यादानाद्धारणतोऽदनादिति ॥ १० ॥ अथ कालशूलं शार्दूलविक्रीतेनाह
पूर्वाह्ने ध्रुवमिश्रभैर्न नृपतेर्यात्रा न मध्याह्नके तीक्ष्णाख्यैरपराह्नके न लघुझै! पूर्वरात्रे तथा ॥ मित्राख्यैर्न च मध्यरात्रिसमये चोग्रैस्तथा नो चरै
राज्यंते हरिहस्तपुष्यशशिभिः स्यात्सर्वकाले शुभा ॥११॥ पूर्वाह्ने इति ॥ ध्रुवाख्यैमिश्राख्यश्च भैः पूर्वाह्ने यात्रा न शुभा स्यात् । तीक्ष्णाख्यैर्भेमध्याहे न स्यात् । अपराह्ने लघुनक्षत्रैः पूर्वरात्रे मैत्राख्यैः मध्यरात्रिसमये उग्रनक्षत्रैः तथा राज्यंते रात्रितृतीयभागे चरनक्षत्रैर्यात्रा न स्यात् । तत्र विशेषः । हरिहस्तपुष्यशशिभिः श्रवणहस्तपुष्यमृगैः सर्वस्मिन्नाप काले यात्रा शुभा स्यात् ॥ ११ ॥
अथ तत्रापि कालविशेषे मध्यमानां निषिद्धानां च कियतां भानां वय॑घटिका इंद्रवजयाहपूर्वाग्लिपिन्यांतकतारकाणां भूपप्रकृत्युग्रतुरंगमाः स्युः॥ स्वातीविशाखेंद्रभुजंगमानां नाड्यो निषिद्धा मनुसंमिताश्च ॥१२॥
Aho ! Shrutgyanam