SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ यात्राप्रकरणम् । १६५ तथाहि भास्करे मृतिभमदनसंस्थे चंद्रे लग्नगे च सति एवं विधयोगेऽपि प्रष्टुर्भगः स्यात् । उक्तं च वराहेण । चंद्रे सरुधिरे लग्ने भंगः सूर्यात्मजेक्षिते । द्यूने नैधनगे चंद्रे लग्ने याते दिवाकरे || विपर्यये वा यातस्य यात्राभंगवधागमा इति । वाऽथवा पापग्रहे चतुर्थाष्टमलनसप्तमानामन्यतमस्थे सति प्रष्टुर्भगः स्यात् ॥ ९ ॥ अथ प्रश्न विशेषं भुजंगप्रयातेनाह - त्रिकोणे कुजात्सौरिशुक्रज्ञजीवा यदैकोsपि वा नो गमोऽकच्छशी वा ॥ बलीयांस्तु मध्ये तयोर्यो ग्रहः स्यात्स्वकीयां दिशं प्रत्युतासौ नयेच्च ॥ ६ ॥ त्रिकोणे कुजादिति ॥ कुजान्मंगलात्रिकोणे नवपंचमे सौरिशुक्रज्ञजीवाश्वेत्स्युः अथवा एकोsपि वा सौरिशुक्रज्ञ जीवानामन्यतमश्चेत्रिकोणे स्यात्तदाप्युद्दिष्टगमनं न स्यादेव । वाऽथवाऽर्काच्छशी त्रिकोणे चेत्स्यात्तदाप्युद्दिष्ट दिग्गमनं न स्यादेव । तर्हि कस्यां दिशि गमनं स्यादित्यत आह बलीयानिति । तयोरधुनोक्तोद्दिष्टदिक्प्रतिबंध कारकयोर्यहयोर्मध्ये यो ग्रहो बलवान् स्यात्सः स्वकीयां दिशं प्रत्युत सांप्रतं नयेत् || ६ || अथ योगांतरं मदलेखयाह प्रश्ने गम्यदिगीशात्वेटः पंचमगो यः ॥ बोभूयाद्वलयुक्तः स्वामाशां नयतेऽसौ ॥ ७॥ प्रश्नेति ॥ गम्यदिगीशात् गंतुं इष्टा या दिक् तस्या ईश: स्वामी प्रश्भलग्ने यत्र स्थाने स्यात्ततः पंचमे स्थाने यो ग्रहो बलयुक्तो बोभूयात् भवेत् तदाऽसौ ग्रहः स्वामाशां दिशं नयते प्रापयति ॥ ७ ॥ अथ यात्राकालं भुजंगप्रयातेनाह धनुर्मेषसिंहेषु यात्रा प्रशस्ता शनिज्ञोशनोराशिगे चैवमध्या ॥ at कर्कमीनालिसंस्थेऽतिदीर्घा जनुः पंचसप्तत्रिताराश्च नेष्टाः ॥८॥ धनुर्मेषेति ॥ धनुर्मेषसिंहस्थे रवौ यात्रा प्रशस्ता शुभफलदा । शनिज्ञोशनोराशिगे मध्या मकरकुंभमिथुनकन्यावृषतुलागते खौ यात्रा मध्या स्यात् । कर्कमीनालिसंस्थे रवौ दीर्घा बहुकालसाध्या यात्रा न सफलेत्यर्थः । वरोह: । यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु । मानौ कुलीरवृषवृश्चिकगेऽतिदीर्घा शस्तश्च देवलमतेऽध्वनि ष्टष्ठगोऽर्कु इति । देवलमतेऽध्वनि मार्गे सूर्यः ष्टष्ठगतः शस्तः । ष्टष्ठगतत्वं तु वसंतराजोक्तभ्रम १ लहः । Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy