SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६२ मुहूर्तचिंतामणौ निशा रात्रिः मलिम्लुचोऽधिमासः एषु राजाभिषेको नो कार्यः । कुत्रचित् भौमवार उक्तः स सेनापत्यभिषेकपरो ज्ञेयः भौमस्य सेनापतित्वात् । गोविप्रराज्यपितृकर्मचतुष्पदेऽपीति चतुष्पदे राज्याभिषेक उक्तः सोऽमावास्यायां भवत्येवेति ॥ १ ॥ अथाभिषेके नक्षत्राणि लग्नशुद्धिं चंद्रवंशयाहशाक्रश्रवःक्षिप्रमृदुध्रुवोडुभिः शीर्षोदये वोपचये शुभे तनौ । पापैस्त्रिषष्ठायगतैः शुभग्रहैः केंद्रत्रिकोणायधनत्रिसंस्थितैः ॥२॥ शाक्रश्रव इति ॥ शाको ज्येष्ठा श्रवः श्रवणः क्षिप्राण्यश्विनीपुष्यहस्ताः मृदूनि चित्रामृगरेवत्यनूराधाः ध्रुवाणि रोहिण्युत्तरात्रयम् । एतैर्नक्षत्रै राजाभिषेकः शुभः। अत्र चित्राग्रहणम् । ज्येष्ठाश्रवःक्षिप्रमृदुध्रुवेषु सौम्यग्रहस्याह्नि तिथी च रिक्ता इति महेश्वरवचनात् । अन्यग्रंथे तदभावात् । शीर्षोदय इति । शीर्षोदया मिथुनसिंहकन्यातुलावृश्चिककुंभाख्याः एषु अथवा उपचये स्वजन्मलग्नात्स्वजन्मराशेर्वा उपचये त्रिषडेकादशदशमानामन्यतमे लग्ने सति शुभे शुभग्रहे तनौ लग्नगते सति शुभग्रहदृष्टे वा सति अभिषेकः शुभः। कश्यपः। जन्मराशेरुपचये लग्ने शीर्षोदये स्थिरे।शुभग्रहेक्षितयुते न युते वीक्षिते परैरिति । पापैरिति पापग्रहैः तृतीयषष्ठैकादशस्थानस्थितैः शुभग्रहैः प्रथमचतुर्थसप्तमदशमनवमपंचमैकादशद्वितीयतृतीयस्थानस्थितै राजाभिषेकः शुभः ॥२॥ अथ स्थानविशेषे पापग्रहैरशुभं फलं सापवादमिंद्रवंशयाहपापैस्तनौ रुङ्गिधने मृतिः सुते पुत्रार्तिरर्थव्ययगैर्दरिद्रता॥ स्यात्वेऽलसो भ्रष्टपदो युनांबुगैः सर्वं शुभं केंद्रगतैः शुभग्रहः ॥३॥ पापैरिति ॥ तनौ लग्नस्थितैः पापैहैः रुक् रोगः स्यात् राज्ञ इति शेषः । निधनेऽष्टमे पापग्रहैः मृतिः स्यात् । सुते पंचमैः पापग्रहैः पुत्रातिः पुत्रपीडा स्यात् । अर्थव्ययगैः द्वितीयद्वादशगैः पापैर्दरिद्रता स्यात् । खे दशमे पापैरलसो निरुद्योगः स्यात् । युनांबुगैः सप्तमचतुर्थस्थानस्थैः पापग्रहैः भ्रष्टपदो भ्रष्टैश्वर्यः स्यात् । अथापवादमाह । सर्व शुभमिति केंद्रगतैः शुभग्रहैः सर्व प्रागुक्तं दुष्टफलं शुभं शुभोदकै स्यात् ॥ ३ ॥ ___ अथ विशेष भुजंगप्रयातेनाहगुरुर्लग्नकोणे कुजोरी सितः खे स राजा सदा मोदते राजलक्ष्म्या॥ तृतीयायगौ सौरिसूयौं खबंध्वोर्गुरुश्चेद्धरित्री स्थिरा स्यान्नृपस्य ४ इति मुहूर्तचिंतामणौ दशमं राजाभिषेकप्रकरणं समाप्तम् ॥१०॥ गुरुर्लग्नकोण इति ॥ लग्ने गुरुश्चेत्स्यादथवा कोणे नवपंचमे गुरुः स्यात् कुनो भौमोऽरौ शत्रुगृहे षष्ठे स्यात् खे दशमे सितः शुक्रः स्यात् एतादृशेऽभिषेकयोगे यो रा Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy