SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५० मुहूर्तचिंतामणौ भृग्वंगिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले तथा ॥४॥ __इति मु० अष्टमं द्विरागमनप्रकरणं समाप्तम् ॥ ८॥ पित्र्ये गृह इति ॥ पितुरिदं पित्र्यं तस्मिन्पित्र्ये गृहे कुचौ स्तनौ पुष्पमृतुस्तत्संभवः स्यात्तदा स्त्रीणां प्रतिशुक्रसंभवो दोषो नास्ति । उपलक्षणत्वाद्भर्तुः सूर्यगुरुशुद्धिराहित्यसंभवोऽपि दोषो नास्तीत्यपि ज्ञेयम् । चंडेश्वरः । पित्र्यागारे कुचकुसुमयोः संभवो वा यदि स्यात्पत्युः शुद्धिर्न भवति रवेः संमुखो वाथ शुक्रः । शुक्रे लग्ने गुणवति तिथौ चंद्रताराविशुद्धौ स्त्रीणां यात्रा भवति सफला सेवितुं स्वामिसद्म ॥ अथ भृग्वंगिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले कोऽर्थः । एतद्वंशोत्पन्नानां प्रतिशुक्रसंभवो दोषो नास्ति । बादरायणः । कश्यपेषु वसिष्ठेषु भृग्वत्र्यंगिरसेषु च । भारद्वाजेषु वत्सेपु प्रतिशुक्रो न दुष्यतीति । अयं चापवादो यात्रामात्रसाधारणः । केचिदमुमपवादं बुधसंमुखेऽप्यूचुः । महेश्वरः । तीर्थानां गमने तथैकनगरे ग्रामे च सौम्यं तथेति ॥ ४ ॥ इति दै० प्रमिताक्षरायां द्विरागमनप्रकरणं समाप्तम् ॥ ८ ॥ अथाग्याधानप्रकरणप्रारंभः॥ अथान्याधानप्रकरणं व्याख्यायते । यत्र तु कालनियमेनाधानादिविहितं तत्र न मुहूर्तविचारः । यदा तु कालनियमाभावस्तदा मुहूर्ती विचार्य एवेत्यभिसंधायान्याधानादिमुहूर्त वसंततिलकयाह स्यादग्निहोत्रविधिरुत्तरगे दिनेशे मिश्रध्रुवांत्यशशिशकसुरेज्यधिष्ण्ये ॥ रिक्तासु नो शशिकुजेज्यभृगौ न नीचे नास्तं गते न विजिते न च शत्रुगेहे ॥ १॥ स्याग्निहोत्रविधिरिति ॥ उत्तरगे दिनेशे उत्तरायणगते सूर्ये सति मिश्रे कृत्तिकाविशाखे ध्रुवाणि रोहिण्युत्तरात्रयं अंत्यं रेवती शशी मृगः शक्रो ज्येष्ठा सुरेज्यधिप्ण्यं पुष्यः एषु नक्षत्रेषु अग्निहोत्रविधिः स्यात् रिक्तासु नो कार्यम् चंद्रमंगलगुरुशुक्रेषु नीचगतेषु अस्तंगतेषु ग्रहांतरैर्वजितेषु तथा शत्रुगृहस्थितेषु अग्याधानं नो कार्यम् ॥ १ ॥ अथ लग्नशुद्धिं वसंततिलकयाह नो कर्कनक्रझषकुंभनवांशलग्ने नोऽब्जे तनौ रविशशीज्यकुजे त्रिकोणे ॥ केंद्रःषत्रिभवगे च परैस्त्रिलाभषट्खस्थितैनिधनशुद्धियुते विलग्ने ॥२॥ Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy