SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ वधूप्रवेशप्रकरणम् । १५७ द्रयुतेऽर्भशेष इत्यादिनोक्तः योगो ग्रहयुतिः तत्सहितं जामित्रलत्ताव्यधं जामित्रं लग्नजामित्रं चंद्रजामित्रं च लग्नाच्चंद्रान्मदनभवनगे इत्यादिनोक्तम् । लत्ता ज्ञराहुपूर्णैदुसिता इत्यादिनोक्ता व्यधं पंचशलाकासप्तशला कोक्तं च बाणाः पंचकं उपग्रहः प्रसिद्धः शराष्टदिक्शक्रनगेत्यादिः पापकर्तरि । समाहारद्वंद्वैकवचनम् । तिथ्यृक्षवारोत्थितं दुष्टयोगं तिथिनक्षत्रवारैः कृत्वोत्थितमुत्पन्नं दुष्टयोगं यथा तिथिनक्षत्रोत्थं सार्प द्वादश्यां वैश्वमादिम इत्यादि तिथि - वारोद्भवं सूर्येशपंचेत्यादि नक्षत्रवारोद्भवं याम्यं त्वाष्ट्रमित्यादि तिथिनक्षत्रवारोद्भवं हस्तार्कं पंचमी तिथावित्यादि दृष्टयोगम् अर्धयामकुलिकाद्यान्वारदोषानपि आदिशब्देन दुर्मुहूर्तादिकं च ॥ १०९ ॥ क्रूराक्रांतविमुक्तभं क्रूरग्रहेण युक्तभं क्रूरविमुक्तभं च ग्रहणभं यस्मिन्नक्षत्रे चंद्रसूर्योपरागो जातस्त क्रूरस्य गंतव्यमं त्रेधोत्पाताः त्रिविधोत्पाताः दिव्यभौमांतरिक्षाः तैर्हतं भम् तन्मासषङ्कं त्याज्यम् एवं ग्रहणनक्षत्रमपि केतुहतभम् केतुना धूननैः स्पर्शनैश्च यन्नक्षत्रं हतं अनेन नक्षत्रांतरेऽपि दोषः संध्योदितं भं सूर्यास्तकाले यन्नक्षत्रस्य क्षितिजे उदयः तत्सूर्यनक्षत्राच्चतुर्दशं नक्षत्रमित्यर्थः । तद्वच्च ग्रह भिन्नयुद्धगतभं ग्रहेण भेदितं ग्रह'युद्धगतं च षण्मासं निषिद्धम् । तथा ग्रहकृतान् लग्नस्य दोषान् व्यये शनिः खेऽवनिज इत्यादिकान् लग्नसंबंधिदोषान् संत्यजेत् । मूलवाक्यानि पूर्वमेव लिखितानि ॥ ११० ॥ इति मुहूर्तचिंतामणौ प्रमिताक्षरायां पष्ठं विवाहप्रकरणं समाप्तम् || ६ || अथ वधूप्रवेशप्रकरणप्रारंभः ॥ अथ वधूप्रवेशप्रकरणं व्याख्यायते । अथ वधूप्रवेशो नाम नूतनपरिणीताया वध्वाः प्रथमतः क्रियमाणो भर्तृगृहे प्रवेशो वधूप्रवेशस्तन्मुहूर्तमुपेंद्रवज्रयाह समाद्रिपंचांकदिने विवाहादधूप्रवेशोऽष्टिदिनांतराले ॥ शुभः परस्ताद्विषमान्दमा सदिनेऽक्षवर्षात्परतो यथेष्टम् ॥ १ ॥ समाद्रीति ॥ विवाहाद्विवाहदिवसादारभ्याष्टिदिनांतराले षोडशदिनमध्ये समाद्रिपंचांकदिने समदिनानि द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशपोडशानि विषमदिनमध्ये सप्तमपंचमनवमदिनानि तेषु वधूप्रवेशः शुभः । नारदः । आरभ्योद्वाहदिवसात्षष्ठे वाप्यष्टमे दिने । वधूप्रवेशः संपत्त्यै दशमेऽथ समे दिने । पष्ठादीनां समत्वादेव ग्रहणे सिद्धे पुनस्तदुक्तिरतिप्राशस्त्यार्थी । वधूप्रवेशनं कार्य पंचमे सप्तमे दिने । नवमे च शुभे वारे सुलग्नेशशिनो बले । इति ज्योतिर्निबंधे । पोडशदिवसानंतरं वधूप्रवेशस्तदा विषमाब्दमासदिने विषमवर्षे विषममासे विषमदिने च कार्यः । अक्षवर्षादिति पंचवर्षादनंतरं विषमवर्षादिनियमो नास्ति । किंतु दोषरहितकाले वधूप्रवेशो विधेयः । उक्तं च । विवाहमारभ्य वधूप्रवेशो युग्मे दिने षोडशवासरांतः । ऊर्ध्वं ततोऽब्देऽयुजि पंचमांतं पुनः पुरस्तान्नियमो न चास्तीति ॥ १ ॥ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy