SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५४ मुहूर्तीचंतामणौ । अथ गोधूलिभेदं जलधरमालाछंदसाहपिंडीभूते दिनकृति हेमंतौ स्यादर्धास्ते तपसमये गोधूलिः ॥ संपूर्णास्ते जलधरमालाकाले त्रेधा योज्या सकलशुभे कार्यादौ १०१ पिंडीभूत इति ॥ हेमंत” शीतकाले मार्गादिमासचतुष्टये दिनकृति सूर्ये पिंडीभूते गोलकसदृशे संध्यायां नीहारातत्वेन निष्प्रभे इत्यर्थः । तस्मिन् समये गोधलिझेंया । तथा तपसमये उष्णकाले चैत्रादिमासचतुष्टये अर्धास्ते अर्धबिस्य दृश्यत्वे गोधूलिः । जलधरा मेघास्तेषां माला समूहस्तस्योत्पादककाले वर्षाकाले श्रावणादिमासचतुष्टये सूर्ये संपूर्णास्ते दर्शनं यस्य तादृशे सति गोधूलिःजलधरमालाशब्देन छंदोनामापि सूचितम् । न केवलमियं विवाहे किंतु सकलशुभे कार्यादौ ज्ञेया ॥ १०१ ॥ अथ गोधूलिसमये अवश्यवानि वैश्वदेवीछंदसाह अस्तं याते गुरुदिवसे सौरे सार्के लग्नान्मृत्यौ रिपुभवने लग्ने चंदौ ॥ कन्यानाशस्तनुमदमृत्युस्थे भौमे वोढा धनसहजे चंद्रे सौख्यम् ॥ १०२ ॥ अस्तं याते इति ॥ गोधूलिरित्यनुवर्तते । बृहस्पतिवारे सूर्य अस्तं याते गोधूलिः शुभा स्यात् न तु पूर्वम् । अर्धयामसद्भावात् । तथा सौरे शनौ सार्के सत्येव गोधूलिः शुभा न त्वस्तानंतरं कुलिकसद्भावात् । क्रांतिसाम्यमपि त्याज्यम् । तथा लग्नात सायंकालीनलग्नात मृत्यावष्टमे रिपुभवने षष्ठे वा लग्ने एव वा चंद्रे सति कन्यानाशः स्यात् । लग्ने इति लनस्थे मदनस्थे मृत्युस्थे वा भौमे सति वोढुवरस्य नाशः स्यात् शेषं स्पष्टम् ॥ १०२॥ अथ सूर्यस्पष्टगतिमिंद्रवजयाह मेषादिगेऽर्केऽष्टशरा ५८ नगाक्षाः ५७ सप्तेषवः ५७ सप्तशरा ५७ गजाक्षाः ५८॥ गोक्षाः ५९ खताः ६० कुरसाः ६१ कुतर्काः ६१ कंगानि ६१ षष्टि ६० नवपंच ५९ भुक्तिः ॥ १०३ ॥ मेषादिगे इति ॥ मेषादिद्वादशराशिषु स्थूला कलात्मिका स्पष्टा गतिरित्यर्थः १०३ सूर्यस्य तात्कालिकीकरणमनुष्टुभाहसंक्रांतियातघस्राद्यैर्गतिनिघ्नी खषट ६० हृता ॥ लब्धेनांशादिना योज्यं यातः स्पष्टभास्करः ॥ १०४ ॥ संक्रांतियातेति ॥ पंचांगे यदिने यावतीषु घटीषु पलेषु च संक्रांतिस्ततआरभ्य वाभीष्टदिनपर्यंत यावंति दिनानि घटी पलानि भवंति तैर्मेषादीष्टराशिस्थेऽर्केसति तत्सूर्यस्थू Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy