SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३६ मुहूर्तचिंतामणौ अथोत्तरार्धोक्तमेवार्थ स्पष्टमुपजातिकयाहमीनोक्षकर्कालिमृगस्त्रियोऽष्टमं लग्नं यदा नाष्टमगेहदोषकृत् ॥ अन्योन्यमित्रत्ववशेन सा वधूर्भवेत्सुतायुर्गृहसौख्यभागिनी ॥४७॥ मीनोक्षेति ॥ उक्षा वृषः स्त्री कन्या एते राशयो यद्यष्टमं लग्नं स्युस्तदाष्टमलग्नदोषकन्न भवेत् । यथा सिंहान्मीन इत्यादि । कुत इत्यत आह । अन्योऽन्येति परिहारांतरमाह गुरुः । लग्नादष्टमराशीशः केंद्रगः शुभवीक्षितः । यद्यष्टमगतस्योक्तं दोषमाशु व्यपोहति ॥ रंधेशः स्वशुभांशस्थस्तुंगस्वक्षेत्रमित्रगः । अष्टमस्थानदोषो हि विनश्यति न संशय इति ॥ ४७ ॥ अथान्यदपि कुसुमविचित्राच्छंदसाहमृतिभवनांशो यदि च विलग्ने तद्धिपतिर्वा न शुभकरः स्यात् ॥ व्ययभवनं वा भवति तदंशस्तदधिपतिर्वा कलहकरः स्यात् ॥४८॥ मृतीति ॥ अष्टमभवननवांशो यदि लग्ने स्यादथवाष्टमलनेशः स्यात्तदा शुभकरो न स्यात् । अथ व्ययभवनं जन्मलग्नजन्मराशीभ्यां द्वादशभवनम् अथवा व्ययभवनांशः अथवा तत्स्वामी यदि लग्ने स्यात्तदा कलहकृत्स्यात् । कश्यपः । दंपत्योरष्टमे लग्ने राशी वापि तदंशके । तदीशे वा लग्नगते तयोर्मृत्युन संशय इति । तथैव द्वादशे लग्ने तदंशे वा तदीश्वरे । विवाहलग्नगे नैस्व्यं नित्यः स्यात्कलहो द्वयोरिति ।। ४८ ॥ अथ विषघटीदोषं वंशस्थाभ्यामिंद्रवज्रया चाह खरामतों ३०ऽत्यादितिवह्निपित्र्यभे खवेदतः ४० के रदत ३२ श्च सार्प ॥ खबाणतो ५० श्वे धृतितो १८ऽर्यमांबुपे कृते २० भगत्वाष्ट्रभविश्वजीवझे ॥४९॥ मनो १४ दिदैवानिलसौम्यशाक्रभे कुपक्षतः २१ शैवकरेष्टि १६ तोऽजभे ॥ युगाश्वितो २४ बुध्यभतोययाम्यभे खचंद्रतो १० मित्रभवासवश्रुतौ ॥५०॥ मूलेंगबाणा ५६ द्विषनाडिकाः कृता वाः शुभेऽथो विषनाडिका ध्रुवाः॥ निघ्नाभनोगे नखतर्क ६० भाजिताः स्फुटा भवेयुर्विषनाडिकास्तथा ॥५१॥ खरामेति । मनोरिति । मूले इति ॥ रेवतीपुनर्वसुकृत्तिकामघानक्षत्रेषु ख Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy