SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३० मुहूर्तचिंतामणौ __ ज्येष्ठारौद्रेति ॥ ज्येष्ठा रौद्रमार्दा अर्यमोत्तराफाल्गुनी अंभःपतिर्वरुणः शततारका एभ्यो नक्षत्रेभ्यो युगयुगं द्वयं द्वयम् ज्येष्ठा मूलम् उत्तरा हस्तः आर्द्रा पुनर्वसुः शततारा पूर्वाभाद्रपदा दास्त्रभमश्विनी च । एतन्नक्षत्रनवकं परस्परमेकनाडीत्युच्यते । पुष्यमृगचित्रानुराधा भरणी धनिष्ठा पूर्वाषाढा पूर्वाफाल्गुनी उत्तराभाद्रपदा एतन्नक्षत्रनवकं मध्यनाडीत्युच्यते । अथ वाय्वग्निव्यालविश्वोडुयुगयुगं वायुः स्वाती तद्युगं द्वयं स्वाती विशाखा अनिः कृत्तिका रोहिणी व्यालः आश्लेषा मघा विश्वोडुयुगं विश्वे उत्तराषाढा श्रवणश्च पौष्णभं रेवती एतन्नक्षत्रनवकं अपरा तृतीयैकनाडीत्युच्यते । एतत्फलमाह । दंपत्योः स्त्रीपुंसयोः एकनाड्यां परिणयनमसढुष्टफलं स्यात् । मध्यनाड्यां हि निश्चयेन मृत्युईयोरपि स्यात् नारदेन तु विशेष उक्तः । चतुस्सिद्व्यंघ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् । वह्निभादिंदुभान्नाडीत्रिचतुःपंचपर्वसु ॥ गणयेत्संख्यया चैकनाड्यां मृत्युर्न संशयः । एकनाडीविवाहश्च गुणैः सर्वैः समन्वितः ॥ वर्जनीयः प्रयत्नेन दंपत्योर्निधनं यत इति । अमुमर्थ स्पष्टमाह गर्गः । चतुष्पात्कन्यका ऋक्षं गणयेदश्विभादिकम् । त्रिभं सव्यापसव्येन भिन्नं पर्वशुभावहम् ॥ कन्यको त्रिपाञ्चेत्स्याद्गणयेत्कृत्तिकादिकम् । चतुर्भिः पर्वभिस्तद्वदभिजित्तारकान्वितम् ॥ कन्यकर्तं द्विपाच्चेत्स्याद्गणयेत्सोम्यभादिकम् । पंचभिस्त्ववरोहे तु पंचमांगुलिवर्जितम् ॥ एतत्फलमप्याह गर्गः । संश्लिष्टा मध्यनाडी तु पुरुषं हंति वेगतः । संश्लिष्टा पार्श्वनाडी तु कन्यकां हंत्यसंशयमिति । आसन्ना त्वेकनाडी स्यादासन्नमृतिदायिनी । दूरस्था चैकनाडी स्याहूरस्थानिष्टकारिणीति । नाडीविचारे चंडेश्वरः । पृष्ठमध्ये शुभसमन्वितभोगः क्रोडे वनितावित्तवियोगः । मध्ये रेखे भवति विवाहे उभयोमरणं वदति वराहः अश्व्यादिनाडीवेधर्क क्रमात्षष्ठद्वितीयकम् । याम्यादितुर्यतुर्यं च कृत्तिकादिद्विषष्ठकम् । अन्यच्च । अर्केदुजक्षोणितनूजजीवाः केतुः स्तिो राहुशशांकसौराः । जन्मादिनाडीत्रितये शुभाः स्युः शुभे शुभं स्यादशुभेऽशुभं च ॥ तद्यथा । अर्कः १, १०, १९ बुधः २, ११, २० मंगलः ३, १२, २१ बृहस्पतिः ४, १३, २२ केतुः ५, १४, २३ शुक्रः ६, १५, २४ राहुः ७, १६, २५ चंद्रः ८, १७, २६ शनिः ९, १८, २७ शुभग्रहनाडीनक्षत्रे शुभकार्यं कुर्यान्नाशुभग्रहनाडीनक्षत्रे इत्यर्थः । चतुर्नाडी त्वहल्यायां पांचाले पंचनाडिका । त्रिनाडी सर्वदेशेषु वर्जनीया प्रयत्नत इति । मनुस्तु । अहल्यायां चतुर्नाडीसंयोगः कालमृत्युदः । एष योगोऽन्यदेशेषु ह्यपमृत्युफलप्रदः ॥ पंचनाडीसमयोगः पांचाले कालदंडदः इतरत्र समायोगो दुःखदारिद्यदोषकत् ॥ त्रिनाड्यां तु समायोगः सर्वत्रानिष्टकारक इति । आवश्यकत्वे गुरुः । दोषापनुत्तये नाड्यां मृत्युंजयजपादिकम् । विधाय ब्राह्मणांश्चैव तर्पयेत्कांचनादिना ॥ हिरण्मयीं दक्षिणां च दद्याद्वर्णादिकूटके । गावोऽन्नवसनं हेम सर्वदो १ सुखावहमित्यपि पाठः । २ कन्यःमित्यपि पाठः । Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy