SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०८ मुहूर्तचिंतामणौ क्रूरो जड इति ॥ षट् कर्माणि यजनं याजनं चैव तथा दानप्रतिग्रहौ । अध्यापनं चाध्ययनं षट्कर्मा धर्मभाग्विज इति । अन्यत् स्पष्टम् ॥ ४९॥ अथ चंद्रनवांशफलं स्वनवांशे सापवादं तो जौ लगुरू वद मोटनकमिति लक्षणलक्षितेन मोटनकच्छंदसाहविद्यानिरतः शुभराशिलवे पापांशगते हि दरिद्रतरः॥ चंद्रे स्वलवे बहुदुःखयुतः कर्णादितिभे धनवान्स्वलवे ॥५०॥ विद्यानिरत इति ॥ यस्मिन् कस्मिन् राशौ चंद्रो यदि शुभग्रहराशिनवांशे स्यात्तदा व्रती विद्यानिरतो भवेत् । यदि पापग्रहराशिनवांशे चंद्रस्तदा दरिद्रतरः धनररहितः । यदि स्वलवे ककौशे स्यात् तदा बहुदुःखसहितो भवेत् । अथ स्वांशगतचंद्रस्यापवादमाह। कर्णेति । कणे श्रवणे अदितौ पुनर्वसौ नक्षत्रे उपनयने खांशे चंद्रः स्यात्तदा धनवान् भवेत् । नारदः । श्रवणादितिनक्षत्रे कर्काशस्थे निशाकरे । तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमानिति ॥ ५० ॥ केंद्रस्थानां फलमनुष्टुभाह राजसेवी वैश्यवृत्तिः शास्त्रवृत्तिश्च पाठकः॥ प्राज्ञोऽर्थवान् म्लेच्छसेवी केंद्रे सूर्यादिखेचरैः ॥५१॥ राजसेवीति ॥ केंद्रे सूर्यादिखेचरैः प्रत्येकं सहिते क्रमादिदं फलं ज्ञेयम् । अन्यस्पष्टम् । अत्र लग्नस्थं चंद्रं केंद्रस्थं शनि च विना सर्वे ग्रहाः शुभा इत्यवगम्यते मुनिभिस्तु केंद्रपापा निषिद्धा इत्युक्तम् । यदाह नारदः । स्फूर्जितं केंद्रगे भानौ वतिनो वंशनाशनम् । कूजितं केंद्रगे भौमे शिष्याचार्यविनाशनम् ॥ करोति रुदितं केंद्रसंस्थे मंदे महागदम् । लग्नकेंद्रगते राहौ रंधं मातृविनाशनम् ॥ उपकेंद्रगते केतौ व्रतिवित्तविनाशनमिति । अत्र स्वगृहोच्चाद्यवस्थिताः पापाः केंद्रस्थाः शुभफलदातारः अन्यथा नेति विरुद्धार्थवचनयोविषयविवेकः ॥ ५१॥ अथान्यदाह शुक्रे जीवे तथा चंद्रे सूर्यौमार्किसंयुते ॥ निर्गुणः क्रूरचेष्टः स्यान्निघृणः सद्युते पटुः ॥१२॥ शुक्रेति ॥ शुक्रे जीवे चंद्रे प्रत्येकं सूर्यसंयुते व्रती निर्गुणः स्यात् । भौमसंयुते क्रूरचेष्टः क्रूरा हिंसनशीला चेष्टा यस्य तादृशः स्यात् । तथा शनिसंयुते निघृणो निर्लजो निर्दयो वा स्यात् । तथा तस्मिन्नेव जीवे शुक्रे चंद्रे वा प्रत्येकं सद्भिर्युते बटुः सर्वषिद्यानिपुणः स्यात् ॥५२॥ Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy