SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३) मानसोल्लासः। १७ यावच्छिलारजो याति तावत्कुर्वीत यत्नतः । घनत्वान्ममृणं हेम न याति सह वारिणा ।। १७३ ॥ आस्तेऽतिनिर्मलं हेम बालार्करुचिरच्छवि । तत्कल्कं हेमजं स्वल्पं वज्रलेपेन मेलयेत् ॥ १७४॥ मिलितं वज्रलेपेन लेखन्यग्रे निवेशयेत् । लिखेदाभरणं कापि यत्किञ्चिद्धेमकल्पितम् ॥ १७५ ॥ . . चित्रे निवेशितं हेम यदा शोषं प्रपद्यते । वराहदंष्ट्रया तत्तु घट्टयेत्कनकं शनैः ॥ १७६ ॥ यावत्कान्तिं समायाति विद्युञ्चकितविग्रहोंम् । सर्वचित्रेषु सामान्यो विधिरेष प्रकीर्तितः ॥ १७७ ॥ . प्रान्ते कज्जलवणेन लिखेदेखा विचक्षणः । वस्त्रमाभरणं पुष्पं मुखरागाधिकं सुधीः ।। १७८ ॥ अलक्तेन लिखेत्पश्चाच्चित्रं पूर्ण' भवेत्ततः । ___इति चित्रवर्णः ऋजुस्यामथमं स्थानमन्यत्तद्वज्र ( दर्धर्जु ) संज्ञितम् ।। १७९ ॥ तृतीयं स्थानकं साँचि तुर्य तद ( त्वर्धा ) क्षिसंज्ञितम् । पञ्चमं भित्तिकं प्राहुः पश्चाद्भागगतं च यत् ॥ १८० ॥ पञ्चस्थानानि मुख्यानि कथितानीह संज्ञया । तेषां तु लक्षणं वक्ष्ये ब्रह्मसूत्रविभेदतः ॥ १८१ ॥ ब्रह्मसूत्राद्धाहेः सूत्रे षड्जवा(ट्क्षड)ङ्गुलमध्यमे । यत्र स्यादृजुसंस्थानं रूपं साम्मुख्ययोगि तत् ॥ १८२ ॥ . अन्तरं ब्रह्मसूत्रस्य पक्षसूत्रस्य चैकतः। अष्टाङ्गलं ततोऽन्यत्र चतुरङ्गलमन्तरम् ॥ १८३ ॥ . १Dङ्ग । २ D ह । ३ D वं । ४ A त्रवर्ण । ५8 वर्णा । ६ A सन्मुख। ७A ने । ४ A वा । ९ A पाङ्गिगदितम् । १० A त । ११ BF इज्रा । १२ D तु ऋ, A मृदु । १३ A मिनम् Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy